सूत्रार्थं विवृणोति -
तस्येत्यादिना ।
न देवतानामत्र भोक्तृतेत्यत्र हेतुमाह -
ता हीति ।
देवतानामिह देहे भोगाभावे श्रुतिमप्यनुकूलयति -
श्रुतिश्चेति ।
सूत्रव्याख्यान्तरमाह -
शारीरेणेति ।
उत्क्रमणादिषु जीवस्य प्राणाव्यभिचारात्तस्यैव प्राणस्वामित्वं, देवतानां तु परस्वामिकरथसारथिवदधिष्ठातृत्वमात्रमित्यर्थः ।
देवतानामत्राभोक्तृत्वे फलितमाह -
तस्मादिति ।
हेतुमेव स्फोरयति -
करणेति ।
आलोकवत्करणोपकारकत्वमेव देवतानां न तज्जन्यभोगवत्त्वमित्यर्थः । तदेवं ‘चक्षुषा हि रूपाणि’ इत्यादिश्रुतेः । ‘आदित्यश्चश्रुर्भूत्वा’ इत्यादिश्रुतेश्चादित्यादिदेवताधिष्ठितचक्षुरादिकारणे ब्रह्मणि समन्वयसिद्धिरित्युपसंहर्तुमितिशब्दः ॥ १६ ॥