ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
तस्य च नित्यत्वात् ॥ १६ ॥
तस्य शारीरस्यास्मिन् शरीरे भोक्तृत्वेन नित्यत्वम्पुण्यपापोपलेपसम्भवात् सुखदुःखोपभोगसम्भवाच्च, देवतानाम्ता हि परस्मिन्नैश्वरे पदेऽवतिष्ठमाना हीनेऽस्मिन् शरीरे भोक्तृत्वं प्रतिलब्धुमर्हन्तिश्रुतिश्च भवतिपुण्यमेवामुं गच्छति वै देवान्पापं गच्छति’ (बृ. उ. १ । ५ । २०) इतिशारीरेणैव नित्यः प्राणानां सम्बन्धः, उत्क्रान्त्यादिषु तदनुवृत्तिदर्शनात्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४ । ४ । २) इत्यादिश्रुतिभ्यःतस्मात् सतीष्वपि करणानां नियन्त्रीषु देवतासु शारीरस्य भोक्तृत्वमपगच्छतिकरणपक्षस्यैव हि देवता, भोक्तृपक्षस्येति ॥ १६ ॥

सूत्रार्थं विवृणोति -

तस्येत्यादिना ।

न देवतानामत्र भोक्तृतेत्यत्र हेतुमाह -

ता हीति ।

देवतानामिह देहे भोगाभावे श्रुतिमप्यनुकूलयति -

श्रुतिश्चेति ।

सूत्रव्याख्यान्तरमाह -

शारीरेणेति ।

उत्क्रमणादिषु जीवस्य प्राणाव्यभिचारात्तस्यैव प्राणस्वामित्वं, देवतानां तु परस्वामिकरथसारथिवदधिष्ठातृत्वमात्रमित्यर्थः ।

देवतानामत्राभोक्तृत्वे फलितमाह -

तस्मादिति ।

हेतुमेव स्फोरयति -

करणेति ।

आलोकवत्करणोपकारकत्वमेव देवतानां न तज्जन्यभोगवत्त्वमित्यर्थः । तदेवं ‘चक्षुषा हि रूपाणि’ इत्यादिश्रुतेः । ‘आदित्यश्चश्रुर्भूत्वा’ इत्यादिश्रुतेश्चादित्यादिदेवताधिष्ठितचक्षुरादिकारणे ब्रह्मणि समन्वयसिद्धिरित्युपसंहर्तुमितिशब्दः ॥ १६ ॥