ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥
मुख्यश्चैकः इतरे चैकादश प्राणा अनुक्रान्ताः; तत्रेदमपरं सन्दिह्यते — किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे प्राणाः, आहोस्वित् तत्त्वान्तराणीति । किं तावत्प्राप्तम् ? मुख्यस्यैवेतरे वृत्तिभेदा इति । कुतः ? श्रुतेः; तथा हि श्रुतिः मुख्यमितरांश्च प्राणान्संनिधाप्य, मुख्यात्मतामितरेषां ख्यापयति — ‘हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवन्’ (बृ. उ. १ । ५ । २१) इति । प्राणैकशब्दत्वाच्च एकत्वाध्यवसायः । इतरथा ह्यन्याय्यमनेकार्थत्वं प्राणशब्दस्य प्रसज्येत, एकत्र वा मुख्यत्वमितरत्र लाक्षणिकत्वमापद्येत । तस्माद्यथैकस्यैव प्राणस्य प्राणाद्याः पञ्च वृत्तयः, एवं वागाद्या अप्येकादशेति । एवं प्राप्ते, ब्रूमः — तत्त्वान्तराण्येव प्राणाद्वागादीनीति । कुतः ? व्यपदेशभेदात् । कोऽयं व्यपदेशभेदः ? ते प्रकृताः प्राणाः, श्रेष्ठं वर्जयित्वा अवशिष्टा एकादशेन्द्रियाणीत्युच्यन्ते, श्रुतावेवं व्यपदेशदर्शनात् — ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ (मु. उ. २ । १ । ३) इति ह्येवंजातीयकेषु प्रदेशेषु पृथक् प्राणो व्यपदिश्यते, पृथक्च इन्द्रियाणि । ननु मनसोऽप्येवं सति वर्जनम् इन्द्रियत्वेन, प्राणवत् , स्यात् — ‘मनः सर्वेन्द्रियाणि च’ इति पृथग्व्यपदेशदर्शनात् । सत्यमेतत् — स्मृतौ तु एकादशेन्द्रियाणीति मनोऽपि इन्द्रियत्वेन श्रोत्रादिवत् सङ्गृह्यते । प्राणस्य तु इन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसिद्धमस्ति । व्यपदेशभेदश्चायं तत्त्वभेदपक्षे उपपद्यते । तत्त्वैकत्वे तु, स एवैकः सन् प्राण इन्द्रियव्यपदेशं लभते न लभते च — इति विप्रतिषिद्धम् । तस्मात्तत्त्वान्तरभूता मुख्यादितरे ॥ १७ ॥

उक्तमनूद्य भेदाभेदश्रुतिभ्यां सन्देहमाह -

मुख्यश्चेति ।

तत्रेति ।

एकादशप्राणेष्विति यावत् ।

पूर्ववदाम्नानबलेन पूर्वपक्षयति -

किमित्यादिना ।

अत्र भेदाभेदश्रुत्योरविरोधेन तत्त्वान्तरे मूलकारणे ब्रह्मणि समन्वयोक्त्या पादादिसङ्गतिः । पूर्वपक्षे श्रुत्योर्विरोधात्तदसिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।

श्रुतिमेवाह -

तथाहीति ।

हन्तेदानीमस्यैव मुख्यप्राणस्य सर्वे वयं रूपमसाम भवामेत्याशिषं दत्वा ते वागादय एतस्यैव मुख्यस्य रूपं बभूवुरिति श्रुत्यर्थः ।

वाचकशब्दैक्याच्चैकत्वमित्याह -

प्राणेति ।

अक्षादिशब्दवदनेकार्थत्वं प्राणशब्दस्य किं न स्यादित्याशङ्क्यागतिका हीयं गतिरित्याह -

इतरथेति ।

गङ्गादिशब्दवदनेकार्थत्वमाशङ्क्य भेदे मानाभावान्मुख्यसम्भवे कुतो लक्षणेत्याह -

एकत्रेति ।

ननु ‘एतस्माज्जायते प्राणः’ इत्यादौ भेदवादाद्वागादीनां प्राणात्तत्त्वान्तरत्वम् । न च मनः सर्वेन्द्रियाणीतिवद्भेदोक्तेर्भेदासाधकत्वं तदिन्द्रियत्वस्य स्मृतिसिद्धत्वाद्ब्राह्मणपरिव्राजकवद्भेदवादेऽपि प्रकृते पृथगुक्तेरेव तत्त्वान्तरत्वध्रौव्यादित्याशङ्क्यात्राप्यभेदश्रुतेरभेदस्यैव सिद्धेर्भेदोक्तिर्ब्राह्मणपरिव्राजकवदिति मत्वाह -

तस्मादिति ।

पूर्वपक्षमनूद्य सूत्राद्बहिरेव प्रतिजानीते -

एवमिति ।

तत्र प्रश्नपूर्वकं हेतुमाह -

कुत इति ।

आकाङ्क्षापूर्वकं हेतुं विवृण्वन्नेव सूत्राक्षराणि योजयति -

क इत्यादिना ।

व्यपदेशभेदं विशदयति -

एतस्मादिति ।

उक्तव्यपदेशभेदस्यातिप्रसङ्गित्वं शङ्कते -

नन्विति ।

एवं सति उक्तहेतुना वागादीनां मुख्यात्तत्त्वान्तरत्वे सतीति यावत् ।

उत्सर्गतो भेदव्यपदेशस्य तत्त्वान्तरस्य साधकत्वमङ्गीकरोति -

सत्यमिति ।

कथं तर्हीन्द्रियत्वं मनसः सिद्धं, तत्राह -

स्मृतौ त्विति ।

श्रुतिस्मृतिभ्यामपवादाद्भेदव्यपदेशस्यौपचारिकत्वमित्यर्थः ।

प्राणस्यापि मनोवदिन्द्रियत्वं किं न स्यात् , तत्राह -

प्रणस्येति ।

तत्रापि भेदवादस्यौपचारिकत्वमाशङ्क्यापवादाभावान्नेत्याह -

व्यपदेशेति ।

उपपत्तिमेव व्यतिरेकेण स्फोरयति -

तत्त्वेति ।

व्यपदेशभेदानुपपत्त्योक्तं भेदमुपसंहरति -

तस्मादिति ॥ १७ ॥