ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
भेदश्रुतेः ॥ १८ ॥
भेदेन वागादिभ्यः प्राणः सर्वत्र श्रूयते — ‘ते ह वाचमूचुः’ (बृ. उ. १ । ३ । २) इत्युपक्रम्य, वागादीनसुरपाप्मविध्वस्तानुपन्यस्य, उपसंहृत्य वागादिप्रकरणम् , ‘अथ हेममासन्यं प्राणमूचुः’ इत्यसुरविध्वंसिनो मुख्यस्य प्राणस्य पृथगुपक्रमणात् । तथा ‘मनो वाचं प्राणं तान्यात्मनेऽकुरुत’ इत्येवमाद्या अपि भेदश्रुतय उदाहर्तव्याः । तस्मादपि तत्त्वान्तरभूता मुख्यादितरे ॥ १८ ॥

सूत्रं विभजते -

भेदेनेति ।

इन्द्रियवृत्तयः शास्त्रोद्भासिता देवाः स्वाभाविक्यस्ता एवासुरास्तयोः सदाऽन्योन्यमभिभवरूपः सङ्ग्रामस्तत्रासुरपराजयायौद्गात्रं कर्म देवाः प्रारेभिरे, ते च देवा वाचमूचुस्त्वं न उद्गयेत्युपक्रम्य तां वाचमसुराः पाप्मनाऽविध्यन्नित्यादिना वागादीनसुरैः पाप्मना कल्याणासङ्गनिमित्तेन विद्धानुक्त्वा वागादिप्रकरणमुपसंहृत्याथेति प्रकरणविच्छेदेन प्रसिद्धमास्ये भवं मुख्यप्राणमूचुर्वागादयस्त्वं न उद्गायेत्युक्त्वा तेन चोद्गाने प्रारब्धे पूर्ववद्वेधायोपक्रममात्रेणाभेद्यपाषाणक्षिप्तलोष्टवदसुरा नष्टा इत्यसुरविध्वंसिनो मुख्यप्राणस्य पृथगुक्तेर्भेदसिद्धिरित्याह -

ते हेत्यादिना ।

भेदे श्रुत्यन्तरमाह -

तथेति ।

तानि त्रीण्यन्नान्यात्मने स्वार्थं प्रजापतिरकुरुत कृतवानिति यावत् , भेदश्रुतिसिद्धमुपसंहरति -

तस्मादिति ॥ १८ ॥