ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
वैलक्षण्याच्च ॥ १९ ॥
वैलक्षण्यं च भवति, मुख्यस्य इतरेषां च — सुप्तेषु वागादिषु मुख्य एको जागर्ति । स एव च एको मृत्युना अनाप्तः, आप्तास्त्वितरे, तस्यैव च स्थित्युत्क्रान्तिभ्यां देहधारणपतनहेतुत्वम् , न इन्द्रियाणाम् । विषयालोचनहेतुत्वं च इन्द्रियाणाम् , न प्राणस्य — इत्येवंजातीयको भूयाँल्लक्षणभेदः प्राणेन्द्रियाणाम् । तस्मादप्येषां तत्त्वान्तरभावसिद्धिः । यदुक्तम् — ‘त एतस्यैव सर्वे रूपमभवन्’ (बृ. उ. १ । ५ । २१) इति श्रुतेः प्राण एवेन्द्रियाणीति, तदयुक्तम् , तत्रापि पौर्वापर्यालोचनाद्भेदप्रतीतेः । तथा हि — ‘वदिष्याम्येवाहमिति वाग्दध्रे’ (बृ. उ. १ । ५ । २१) इति वागादीनीन्द्रियाण्यनुक्रम्य, ‘तानि मृत्युः श्रमो भूत्वोपयेमे ... तस्माच्छ्राम्यत्येव वाक्’ इति च श्रमरूपेण मृत्युना ग्रस्तत्वं वागादीनामभिधाय, ‘अथेममेव नाप्नोद्योऽयं मध्यमः प्राणः’ (बृ. उ. १ । ५ । २१) इति पृथक् प्राणं मृत्युना अनभिभूतं तमनुक्रामति । ‘अयं वै नः श्रेष्ठः’ (बृ. उ. १ । ५ । २१) इति च श्रेष्ठतामस्यावधारयति, तस्मात् तदविरोधेन, वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वम् तद्रूपभवनं वागादीनाम् — इति मन्तव्यम् , न तु तादात्म्यम् । अत एव च प्राणशब्दस्येन्द्रियेषु लाक्षणिकत्वसिद्धिः । तथा च श्रुतिः — ‘त एतस्यैव सर्वे रूपमभवꣳस्तस्मादेत एतेनाख्यायन्ते प्राणाः’ (बृ. उ. १ । ५ । २१) इति मुख्यप्राणविषयस्यैव प्राणशब्दस्येन्द्रियेषु लाक्षणिकीं वृत्तिं दर्शयति । तस्मात्तत्त्वान्तराणि प्राणात् वागादीनि इन्द्रियाणीति ॥ १९ ॥

तमेवार्थं विवृणोति -

वैलक्षण्यं चेति ।

किमिदं वैलक्षण्यं तदाह -

सुप्तेष्विति ।

अर्थक्रियाकृतं वैलक्षण्यान्तरमाह -

तस्यैवेति ।

लक्षणभेदकृतं फलमुपसंहरति -

तस्मादिति ।

अभेदश्रुतेरुक्तमभेदमनुवदिति -

यदिति ।

अभेदे तस्यास्तात्पर्याभावान्मैवमित्याह -

तदिति ।

अभेदश्रुतिः सप्तम्यर्थः ।

भेदप्रतीतिं प्रकटयति -

तथीहीति ।

दध्रे धारणाभिप्रायं चक्रे । तस्मान्मृत्युना श्रमेणाक्रान्तत्वादिति यावत् ।

प्राकारान्तरेण भेदप्रतीतिमाह -

अयमिति ।

अभेदश्रुतेस्तर्हि का गतिः, तामाह -

तस्मादिति ।

एतस्यैव सर्वे रूपमभवन्निति वाक्यात्तस्मादेत एतेनाख्यायन्ते प्राणा इति च प्राणश्रुतेरिन्द्रियाणां प्राणवृत्तित्वे प्राप्ते प्राणसंवादादिगतैर्बहुभिर्भेदलिङ्गैरर्थान्तरत्वे च लिङ्गैर्बलीयोभिरबलं वाक्यं बाध्यते । श्रुतिरपीन्द्रियाणां प्राणसंज्ञार्थेत्यन्यपरा लिङ्गैर्बहुभिर्बाध्येति भावः ।

यत्तु प्राणशब्दस्य मुख्यत्वसम्भवे न लक्षणेति, तत्राह –

अत इति ।

प्राणस्येन्द्रियेभ्यो भेदो यस्मात् प्रामाणिकस्तस्मादेव तच्छब्दस्य तेषु मुख्यतायोगाद्युक्ता लक्षणेत्यर्थः ।

श्रुत्यालोचनातोऽपि प्राणशब्दस्य लक्षणासिद्धिरित्याह -

तथाचेति ।

अभेदश्रुतेर्गतिमुक्त्वोपसंहरति -

तस्मादिति ।

तदेवं भेदाभेदश्रुत्योरविरोधात्तत्त्वान्तरभूतवागादिमूलकारणे ब्रह्मणि समन्वयधीरित्युपसंहर्तुमितीत्युक्तम् ॥ १९ ॥