ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥
सत्प्रक्रियायां तेजोबन्नानां सृष्टिमभिधायोपदिश्यते — ‘सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ।’ (छा. उ. ६ । ३ । २) ‘तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति’ (छा. उ. ६ । ३ । ३) । तत्र संशयः — किं जीवकर्तृकमिदं नामरूपव्याकरणम् , आहोस्वित्परमेश्वरकर्तृकमिति । तत्र प्राप्तं तावत् — जीवकर्तृकमेवेदं नामरूपव्याकरणमिति । कुतः ? ‘अनेन जीवेनात्मना’ इति विशेषणात् — यथा लोके ‘चारेणाहं परसैन्यमनुप्रविश्य सङ्कलयानि’ इत्येवंजातीयके प्रयोगे, चारकर्तृकमेव सत् सैन्यसङ्कलनं हेतुकर्तृत्वात् राजा आत्मन्यध्यारोपयति सङ्कलयानीत्युत्तमपुरुषप्रयोगेण; एवं जीवकर्तृकमेव सत् नामरूपव्याकरणं हेतुकर्तृत्वात् देवता आत्मन्यध्यारोपयति व्याकरवाणीत्युत्तमपुरुषप्रयोगेण । अपि च डित्थडवित्थादिषु नामसु घटशरावादिषु च रूपेषु जीवस्यैव व्याकर्तृत्वं दृष्टम् । तस्माज्जीवकर्तृकमेवेदं नामरूपव्याकरणमित्येवं प्राप्ते अभिधत्ते — संज्ञामूर्तिकॢप्तिस्त्विति । तुशब्देन पक्षं व्यावर्तयति । संज्ञामूर्तिकॢप्तिरिति — नामरूपव्याक्रियेत्येतत् । त्रिवृत्कुर्वत इति परमेश्वरं लक्षयति, त्रिवृत्करणे तस्य निरपवादकर्तृत्वनिर्देशात् — येयं संज्ञाकॢप्तिः मूर्तिकॢप्तिश्च, अग्निः आदित्यः चन्द्रमाः विद्युदिति, तथा कुशकाशपलाशादिषु पशुमृगमनुष्यादिषु च, प्रत्याकृति प्रतिव्यक्ति च अनेकप्रकारा, सा खलु परमेश्वरस्यैव तेजोबन्नानां निर्मातुः कृतिर्भवितुमर्हति । कुतः ? उपदेशात्; तथा हि — ‘सेयं देवतैक्षत’ इत्युपक्रम्य ‘व्याकरवाणि’ इत्युत्तमपुरुषप्रयोगेण परस्यैव ब्रह्मणो व्याकर्तृत्वमिहोपदिश्यते । ननु ‘जीवेन’ इति विशेषणात् जीवकर्तृकत्वं व्याकरणस्याध्यवसितम् — नैतदेवम्; ‘जीवेन’ इत्येतत् ‘अनुप्रविश्य’ इत्यनेन सम्बध्यते, आनन्तर्यात् । न ‘व्याकरवाणि’ इत्यनेन — तेन हि सम्बन्धे ‘व्याकरवाणि’ इत्ययं देवताविषय उत्तमपुरुष औपचारिकः कल्प्येत । न च गिरिनदीसमुद्रादिषु नानाविधेषु नामरूपेषु अनीश्वरस्य जीवस्य व्याकरणसामर्थ्यमस्ति । येष्वपि च अस्ति सामर्थ्यम् , तेष्वपि परमेश्वरायत्तमेव तत् । न च जीवो नाम परमेश्वरादत्यन्तभिन्नः — चार इव राज्ञः, ‘आत्मना’ इति विशेषणात् , उपाधिमात्रनिबन्धनत्वाच्च जीवभावस्य । तेन तत्कृतमपि नामरूपव्याकरणं परमेश्वरकृतमेव भवति । परमेश्वर एव च नामरूपयोर्व्याकर्तेति सर्वोपनिषत्सिद्धान्तः, ‘आकाशो वै नाम नामरूपयोर्निर्वहिता’ (छा. उ. ८ । १४ । १) इत्यादिश्रुतिभ्यः । तस्मात् परमेश्वरस्यैव त्रिवृत्कुर्वतः कर्म नामरूपयोर्व्याकरणम् । त्रिवृत्करणपूर्वकमेवेदम् इह नामरूपव्याकरणं विवक्ष्यते, प्रत्येकं नामरूपव्याकरणस्य तेजोबन्नोत्पत्तिवचनेनैवोक्तत्वात् । तच्च त्रिवृत्करणमग्न्यादित्यचन्द्रविद्युत्सु श्रुतिर्दर्शयति — ‘यदग्ने रोहितꣳ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य’ (छा. उ. ६ । ४ । १) इत्यादिना । तत्राग्निरिति इदं रूपं व्याक्रियते, सति च रूपव्याकरणे विषयप्रतिलम्भादग्निरिति इदं नाम व्याक्रियते । एवमेवादित्यचन्द्रविद्युत्स्वपि द्रष्टव्यम् । अनेन च अग्न्याद्युदाहरणेन भौमाम्भसतैजसेषु त्रिष्वपि द्रव्येष्वविशेषेण त्रिवृत्करणमुक्तं भवति, उपक्रमोपसंहारयोः साधारणत्वात् । तथा हि — अविशेषेणैव उपक्रमः — ‘इमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति’ (छा. उ. ६ । ३ । ४) इति, अविशेषेणैव च उपसंहारः — ‘यदु रोहितमिवाभूदिति तेजसस्तद्रूपम्’ (छा. उ. ६ । ४ । ६) इत्येवमादिः, ‘यद्वविज्ञातमिवाभूदित्येतासामेव देवतानाꣳ समासः’ (छा. उ. ६ । ४ । ७) इत्येवमन्तः ॥ २० ॥

नामरूपाभेदात्करणानां प्राणाभेदशङ्कानिरासप्रसङ्गेन नामरूपव्याकरणं किङ्कर्तृकमिति निरूपयतीति विशेषसङ्गतिं गृहीत्वाऽधिकरणस्य विषयमाह -

सदिति ।

उपदेशमेव दर्शयति -

सेयमिति ।

ईक्षणप्रयोजनं यद्बहुभवनमुक्तं तदद्यापि न सिद्धमिति पुनरीक्षां कृतवती सदाख्या देवतेत्यर्थः ।

ईक्षणप्रकारमभिनयति -

हन्तेति ।

इदानीमहमिमा यथोक्तास्तेजोबन्नाख्यास्तिस्त्रो देवता व्यवहारापेक्षायामनेन पूर्वसृष्टावनुभूतेनाधुना स्मृतेन जीवेनात्मना बुद्ध्यादिभूतमात्रायामादर्शे मुखवदनुप्रविश्य नाम च रूपं च ते व्याकरवाणीदमस्य नामेदं च रूपमिति स्पष्टं करवाण्येवमीक्षित्वा पुनरपि देवता व्यवहारार्थमीक्षां चकारेत्याह -

तासामिति ।

तिसृणां देवतानामेकैकां देवतां त्रिवृतं त्रिवृतं तेजोऽबन्नात्मना त्र्यात्मिकां त्र्यात्मिकां करवाणि । तथा च स्थूलभूतेषु व्यवहारसिद्धिरित्यर्थः ।

नामरूपव्याकरणं विषयीकृत्यानेन जीवेनेत्यस्य व्याकरवाणीत्यनेन वानुप्रविश्येत्यनेन वा सम्बन्धसम्भावनया सन्देहमाह -

तत्रेति ।

भौतिकसृष्टिश्रुतिविरोधनिरासेन परस्मिन्नेव तत्कारणे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे जीवस्यैव भौतिकसृष्टिकारणत्वात्तस्मिन्नेव समन्वयाद्ब्रह्मणि तदसिद्धिः ।

सिद्धान्ते परस्यैव तद्धेतुत्वात्तत्रैव तत्सिद्धिरित्यभिसन्धाय पूर्वपक्षमाह -

तत्रेत्यादिना ।

जीवेनेत्यस्य प्रविश्येत्यनेन सम्बन्धान्न जीवस्य व्याकर्तृत्वमिति शङ्कते -

कुत इति ।

क्रियापदस्य प्राधान्यात्तेनान्येषामन्वयाज्जीवेनेत्यस्य व्याकरवाणीत्यनेन सङ्गतिरित्याह -

अनेनेति ।

सेयं देवतेत्युपक्रम्य व्याकरवाणीत्युत्तमपुरुषप्रयोगाद्देवताया व्याकर्तृत्वं न जीवस्येत्याशङ्क्योपचारादुत्तमपुरुषप्रयोगं दृष्टान्तेन दर्शयति -

यथेत्यादिना ।

उपचारान्मुख्यग्रहणं युक्तमित्याशङ्क्य जीवेनेति विशेषणवैयर्थ्यान्मैवमिति मत्वा दार्ष्टान्तिकमाह -

एवमिति ।

जीवस्य प्रवेष्टृत्वं ब्रह्मणो व्याकर्तृत्वमित्यङ्गीकारे समानकर्तृकत्वाऽऽभावात्क्त्वाप्रत्ययविरोधः स्यादिति भावः ।

नदीसमुद्रादिव्याकरणे जीवस्यायोग्यत्वाद्ब्रह्मणस्तत्र कर्तृतेत्याशङ्क्यानुमानमाह -

अपिचेति ।

विप्रतिपन्नमिदमा परामृश्यते । भौतिकसृष्टिश्रुतिषु विरोधान्न सर्वकारणे ब्रह्मणि समन्वयसिद्धिरिति पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।

सूत्रं पदशो विभजते -

तुशब्देनेति ।

पदार्थमुक्त्वा प्रतिज्ञावाक्यार्थं स्फुटयति -

येयमिति ।

अधिदैवविषयमग्न्याद्युदाहरणम् । अधिभूतविषयं कुशादि । पश्वाद्यध्यात्मविषयमिति भेदः ।

न केवलं जात्युपाधावनेकप्रकारं किन्तु व्यक्त्युपाधावपीत्याह -

प्रतीति ।

कारणविषयविप्रतिषेधनिषेधयावधारणम् । तत्र सौत्रं हेतुं प्रश्नपूर्वकमादाय व्याचष्टे -

कुत इति ।

परोक्तमनुवदति -

नन्विति ।

आकाङ्क्षासंनिधियोग्यतावशेनान्वयाज्जीवेनेत्यस्य प्रविश्येत्यनेन संनिधानाज्जीवस्य च सर्वनामरूपव्याकरणे योग्यत्वाभावात्तस्य प्रवेशेनैव सम्बन्धो नान्येनेत्याह -

नैतदिति ।

उपसर्जनस्योपसर्जनेनासम्बन्धात्प्रधानेन क्रियापदेनैव जीवपदस्य सङ्गतिरुक्तेत्याशङ्क्य व्याकरवाणीत्युत्तमपुरुषस्यौपचारिकत्वापत्तेर्मैवमित्याह -

तेनेति ।

परोक्तमनुमानं योग्यानुपलब्धिविरोधेन निरस्यति -

नचेति ।

आगमविरोधाच्चायुक्तमनुमानमित्याह -

येष्विति ।

यत्तु कर्तृभेदे क्त्वाप्रत्ययविरोध इति, तत्राह -

नचेति ।

कथं तर्हि व्यपदेशभेदः, तत्राह -

उपाधीति ।

औपाधिके भेदे वास्तवे चाभेदे फलितमाह -

तेनेति ।

जीवब्रह्मणोरैक्याज्जीवकर्तृकमपि व्याकरणं ब्रह्मकर्तृकं चेत्तर्हि जीवकर्तृकमेव सद्ब्रह्मकर्तृकं किं न स्यादित्याशङ्क्य ब्रह्मकर्तृकत्वस्यैव वेदान्तेषु प्रसिद्धेर्मैवमित्याह -

परमेश्वर इति ।

सूत्रार्थमुपसंहरति -

तस्मादिति ।

भूतविषयनामरूपव्याकरणस्य त्रिवृत्करणात्पूर्वमपि सम्भवात्र्रिवृत्कुर्वतो नामरूपव्याकरणं कर्मेति कथमुक्तमित्याशङ्क्य भौतिकविषयमेतदिति विशेषणसिद्धिमाह -

त्रिवृदिति ।

इहेति व्याकरणवाक्योक्तिः ।

किं तत्र्रिवृत्करणं यद्व्याकरणात्पूर्वभावीत्याशङ्क्याह -

तच्चेति ।

यथा छान्दोग्ये भूतत्रयसृष्टिस्तैत्तिरीयश्रुत्यनुरोधाद्भूतपञ्चकविषयोक्ता तथात्रापि त्रिवृत्करणं, पञ्चीकरणाभिप्रायं द्रष्टव्यं श्रुत्यन्तरे पञ्चानां भूतानां सृष्टेरुक्तत्वात् । किं पुनर्नामरूपव्याकरणं, तदाह -

तत्रेति ।

अग्नावुक्तन्यायमतिदिशति -

एवमिति ।

आदित्यादीनां तैजसानामेव श्रुत्योक्तेर्न सर्वत्र त्रिवृत्करणमित्याशङ्क्याह -

अनेनेति ।

यस्य त्रिवृत्करणं गम्यते तस्यैवास्तु किमतिदेशेनेत्याशङ्क्याह -

उपक्रमेति ।

तिस्रस्तावदिमास्तेजोबन्नाख्या देवतास्तासामेकैका देवता त्रिवृत्र्रिवृत्र्र्यात्मिका त्र्यात्मिका भवतीत्युपक्रमार्थः । उपसंहारस्थावितिशब्दौ क्रमेण यच्छब्दाभ्यां सम्बन्ध्येते । अविज्ञातं विशेषरूपेणादृष्टम् । इवकारावुभयत्र दृष्टरूपस्याभासत्वार्थौ । एतासां तिसृणामेव देवतानां समासः । समुदाय इति यावत् ॥ २० ॥