ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
मांसादि भौमं यथाशब्दमितरयोश्च ॥ २१ ॥
भूमेस्त्रिवृत्कृतायाः पुरुषेणोपभुज्यमानाया मांसादिकार्यं यथाशब्दं निष्पद्यते । तथा हि श्रुतिः — ‘अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्माꣳसं योऽणिष्ठस्तन्मनः’ (छा. उ. ६ । ५ । १) इति । त्रिवृत्कृता भूमिरेवैषा व्रीहियवाद्यन्नरूपेण अद्यत इत्यभिप्रायः । तस्याश्च स्थविष्ठं रूपं पुरीषभावेन बहिर्निर्गच्छति; मध्यममध्यात्मं मांसं वर्धयति; अणिष्ठं तु मनः । एवमितरयोरप्तेजसोर्यथाशब्दं कार्यमवगन्तव्यम् — मूत्रं लोहितं प्राणश्च अपां कार्यम् , अस्थि मज्जा वाक् तेजसः — इति ॥ २१ ॥

सूत्राक्षराणि व्याचष्टे -

भूमेरिति ।

यथाशब्दमित्युक्तं विशदयति -

तथाहीति ।

भूमेर्मांसादिभावः सूत्रितस्तदयुक्तमोदनस्यैव तथात्वदृष्टेरित्याशङ्क्याह -

त्रिवृदिति ।

सूत्रतात्पर्यमुक्त्वा श्रुतितात्पर्यमाह -

तस्याश्चेति ।

इतरयोश्चेति भागं व्याकरोति -

एवमिति ।

तदेव कार्यमुदाहरति -

मूत्रमिति ।

जलाधीनस्थितित्वात्तत्कार्यत्वं प्राणस्योपचर्यते श्रुत्यन्तरे तस्य वायुकार्यत्वसिद्धेरन्यत्रापवादाभावान्मुख्यमेतत्कार्यत्वमिति विवेकः ॥ २१ ॥