ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
मांसादि भौमं यथाशब्दमितरयोश्च ॥ २१ ॥
तासां तिसृणां देवतानाम् , बहिस्त्रिवृत्कृतानां सतीनाम् , अध्यात्ममपरं त्रिवृत्करणमुक्तम् — ‘इमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति’ (छा. उ. ६ । ४ । ७) इति । तदिदानीम् आचार्यो यथाश्रुत्येवोपदर्शयति, आशङ्कितं कञ्चिद्दोषं परिहरिष्यन् —

बाह्यं त्रिवृत्करणमुक्त्वाध्यात्मिकेऽस्मिन्मानं वदन्नुत्तरसूत्रसङ्गतिमाह -

तासामिति ।

अध्यात्मं देहे त्रिवृत्करणमपरं कार्यत्रयरूपेण वर्तनमिति यावत् । याः खल्विमा देवतास्तिस्रो बहिस्त्रिवृत्कृता दर्शितास्तासामेकैका देवता पुरुषं शरीरं प्राप्य त्रिवृत्कार्यत्रयरूपेण त्र्यात्मिका त्र्यात्मिका भवतीत्यर्थः ।

तदित्याध्यात्मिकं त्रिवृत्करणमुच्यते । सर्वस्य त्रिवृत्कृतत्वाविशेषे कथं व्यवहारविशेषः स्यादित्याशङ्क्याह -

आशङ्कितमिति ।

उत्तरसूत्रेण शङ्कितं दोषमुद्भाव्य परिहरिष्यन्नादौ त्रिवृत्करणं विषयं दर्शयतीति योजना ।