ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥
तुशब्देन चोदितं दोषमपनुदति; विशेषस्य भावो वैशेष्यम् , भूयस्त्वमिति यावत् । सत्यपि त्रिवृत्करणे क्वचित्कस्यचिद्भूतधातोर्भूयस्त्वमुपलभ्यते — अग्नेस्तेजोभूयस्त्वम् , उदकस्याब्भूयस्त्वम् , पृथिव्या अन्नभूयस्त्वम् इति । व्यवहारप्रसिद्ध्यर्थं चेदं त्रिवृत्करणम् । व्यवहारश्च त्रिवृत्कृतरज्जुवदेकत्वापत्तौ सत्याम् , न भेदेन भूतत्रयगोचरो लोकस्य प्रसिध्येत् । तस्मात्सत्यपि त्रिवृत्करणे वैशेष्यादेव तेजोबन्नविशेषवादो भूतभौतिकविषय उपपद्यते । ‘तद्वादस्तद्वादः’ इति पदाभ्यासः अध्यायपरिसमाप्तिं द्योतयति ॥ २२ ॥

तदक्षराणि व्याचष्टे -

तुशब्देनेति ।

भूयस्त्वं विवृणोति -

सत्यपीति ।

दृष्टं भूयस्त्वमुदाहरति -

अग्नेरिति ।

अफलत्वादप्रतिपाद्यं त्रिवृत्करणमित्याशङ्क्याह -

व्यवहारेति ।

एकैकभूतगोचरत्वेनापि व्यवहारस्य सुकरत्वान्न तादर्थ्येन त्रिवृत्करणमित्याशङ्क्याह -

व्यवहारश्चेति ।

केवलभूततन्मात्राणामिन्द्रियागोचरत्वात्तदर्थं तदुक्तिरित्यर्थः ।

उक्तमनूद्यावशिष्टं भागं व्याचष्टे -

तस्मादिति ।

विरोधसमाधिमुपसंहरन्पदाभ्यासस्य तात्पर्यमाह -

तद्वाद इति ॥ २२ ॥