ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥
अत्राह यदि सर्वमेव त्रिवृत्कृतं भूतभौतिकम् , अविशेषश्रुतेः — ‘तासां त्रिवृतं त्रिवृतमेकैकामकरोत्’ इति, किंकृतस्तर्ह्ययं विशेषव्यपदेशः — इदं तेजः, इमा आपः, इदमन्नम् इति, तथा अध्यात्मम् — इदमन्नस्याशितस्य कार्यं मांसादि, इदमपां पीतानां कार्यं लोहितादि, इदं तेजसोऽशितस्य कार्यमस्थ्यादि इति ? अत्रोच्यते —

अविशेषेण सर्वेषां त्र्यात्मकत्वे कथमन्नादिशब्दवाच्यतेति चोदयति -

अत्रेति ।

बाह्ये व्यवहारविशेषासम्भवमुक्त्वा देहेऽपि तदसम्भवमाह -

तथेति ।

उत्तरसूत्रमवतारयति -

अत्रेति ।