ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
किं तावत्प्राप्तम् ? असम्परिष्वक्त इति । कुतः ? करणोपादानवद्भूतोपादानस्य अश्रुतत्वात् — ‘स एतास्तेजोमात्राः समभ्याददानः’ (बृ. उ. ४ । ४ । १) इति ह्यत्र तेजोमात्राशब्देन करणानामुपादानं सङ्कीर्तयति, वाक्यशेषे चक्षुरादिसङ्कीर्तनात् । नैवं भूतमात्रोपादानसङ्कीर्तनमस्ति । सुलभाश्च सर्वत्र भूतमात्राः, यत्रैव देह आरब्धव्यस्तत्रैव सन्ति । ततश्च तासां नयनं निष्प्रयोजनम् । तस्मादसम्परिष्वक्तो याति — इत्येवं प्राप्ते, पठत्याचार्यः —

अत्र च परिष्वक्तरंहणनिरूपणेन वैराग्यदृढीकरणादधिकारिसिद्धौ तस्य शास्त्रे प्रवृत्तिरिति पादादिसङ्गतिरित्यङ्गीकृत्य पूर्वपक्षमाह -

किमित्यादिना ।

करणैरिव भूतैरपि परिष्वक्तस्यैव रंहणमिति शङ्कते -

कुत इति ।

वैषम्यं दर्शयन्नुत्तरमाह -

करणेति ।

करणोपादाने मानमाह -

स इति ।

तेजोमात्राशब्दस्य करणविषयत्वे हेतुमाह -

वाक्येति ।

स यत्रैष चाक्षुषः पुरुष इत्यादाविति यावत् ।

प्रश्नप्रतिवचनाभ्यामपां गमने गम्यमाने कथं भूतमात्राणामुपादानासंकीर्तनं, तत्राह -

नैवमिति ।

अापः पुरुषवचसो भवन्तीत्यपां पुरुषवचनक्रियायोगमात्रं भाति न पुरुषोपादानत्वम् । नच पञ्चसु स्थानेष्वपां गमनमस्ति श्रद्धादीनामेव होम्यत्वावगमात् । यद्यपि करणानां भौतिकत्वात्तदुपादानश्रुत्यैव भूतोपादानमर्थाक्षिप्तं तथापीन्द्रियोपादानापञ्चीकृतभूतांशान्यभूतविवक्षयेदमश्रुतत्वमिति भावः ।

देहान्तरारम्भान्यथानुपपत्त्या भूतपरिष्वक्तस्य गमनमित्याशङ्क्याह -

सुलभाश्चेति ।

परिष्वङ्गे मानफलयोरभावे फलितमुपसंहरति -

तस्मादिति ।

पूर्वपक्षमनुभाष्य प्रतिज्ञामवतार्य व्याकरोति -

एवमिति ।