ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ १ ॥
तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्त इति । तदन्तरप्रतिपत्तौ देहान्तरप्रतिपत्तौ, देहबीजैर्भूतसूक्ष्मैः सम्परिष्वक्तः, रंहति गच्छति — इत्यवगन्तव्यम् । कुतः ? प्रश्ननिरूपणाभ्याम्; तथा हि प्रश्नः — ‘वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ (छा. उ. ५ । ३ । ३) इति । निरूपणं च प्रतिवचनम् , द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पञ्च आहुतीर्दर्शयित्वा, — ‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ (छा. उ. ५ । ९ । १) इति । तस्मादद्भिः परिवेष्टितो जीवो रंहति व्रजतीति गम्यते । नन्वन्या श्रुतिः जलूकावत्पूर्वदेहं न मुञ्चति यावन्न देहान्तरमाक्रमतीति दर्शयति — ‘तद्यथा तृणजलायुका’ (बृ. उ. ४ । ४ । ३) इति । तत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेहविषयभावनादीर्घीभावमात्रं जलूकयोपमीयत इत्यविरोधः । एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति, याः पुरुषमतिप्रभवाः कल्पनाः — व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मवशाद्वृत्तिलाभस्तत्र भवति, — केवलस्यैवात्मनो वृत्तिलाभस्तत्र भवति, इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थाने उत्पद्यन्ते, — मन एव वा केवलं भोगस्थानमभिप्रतिष्ठते, — जीव एव वा उत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते, शुक इव वृक्षाद्वृक्षान्तरम् — इत्येवमाद्याः, ताः सर्वा एव अनादर्तव्याः, श्रुतिविरोधात् ॥ १ ॥

परिष्वङ्गे मानाभावान्नैवमित्युक्तमाशङ्क्य सौत्रं हेतुमादाय व्याचष्टे -

कुत इति ।

पञ्चसु स्थानेष्वापो हुताः पञ्चम्यामाहुतौ हुतायां यथा पुरुषशब्दवाच्याः पुरुषाकारेण परिणमन्ते तथा किं त्वं वेत्थेति श्वेतकेतुं प्रति प्रवाहणस्य प्रश्नः । तस्य चोत्तराज्ञाने तत्पितरं प्रति निरूपणं राज्ञा कृतम् । असौ वाव लोको गौतमेत्यादिना ।

तदिदं सङ्क्षिप्याह -

द्युपर्जन्येति ।

द्युप्रभृतीनामनग्नीनामग्नित्वं होमाधारत्वसाम्याद्ध्यानार्थं सम्पादितम् । श्रद्धादीनामाहुतित्वं च तत्र तत्र संनिपातमात्रेणोक्तम् । किं च पञ्चमे स्थाने गर्भाकारेणापः परिणमन्तीत्युपक्रमोपसंहारयोरेकवाक्यत्वावगतेः ।

सिद्धान्तेन तत्परिवेष्टितो गच्छतीत्याह -

इति त्विति ।

प्रश्नादीनां फलितं निगमयति -

तस्मादिति ।

अशरीरस्य गतिश्चेदद्भिः सम्परिष्वक्तस्य सा कल्प्येत न तु तस्य गतिः । किन्तु यथा तृणजलायुका तृणान्तरं गृहीत्वा पूर्वतृणं त्यजति तथा जीवोऽपि देहान्तरं गृहीत्वैव पूर्वं देहं मुञ्चति तेन श्रुत्यन्तरविरोधान्न परिष्वक्तरंहणमिति शङ्कते -

नन्विति ।

प्रश्नप्रत्युक्तिश्रुत्यपेक्षया बृहदारण्यकश्रुतिरन्योक्ता । अप्परिवेष्टितस्य गत्युक्तिश्रुतेर्गत्यन्तराभावाद्दृष्टान्तश्रुतेश्च तद्भावान्न विरोधोऽस्तीत्याह -

तत्रापीति ।

कर्मोपस्थापितः प्रतिपत्तव्यः प्राप्तव्यो यो देहस्तद्विषये भावनाया देवोऽहमित्यादिकाया दीर्घीभावो व्यवहितार्थालम्बनत्वं तावन्मात्रं जलूकयोपमीयत इति योजना । जीवो हि संसरन्देहेन्द्रियाद्युपाधिः स्वयं प्रादेशिकत्वान्न तत्रस्थो देहान्तरं गन्तुमर्हत्यतः सूक्ष्मदेहेनैव परिष्वक्तो रंहतीति भावः ।

साङ्ख्यादयोऽन्यथा देहान्तरप्राप्तिमाहुस्तथैव किं न गृह्येतेत्याशङ्क्य श्रुतिविरोधादित्याह -

एवमिति ।

याः पुरुषमतिप्रभवास्ताः सर्वा एवानादर्तव्या इति सम्बन्धः ।

तत्र साङ्ख्यीयकल्पनामाह -

व्यापिनामिति ।

करणानामाहङ्कारिकत्वात्तस्य व्यापित्वात्तेषामात्मनां च विभुत्वे किमिति शरीरे वृत्तिलाभो नियम्यते, तत्राह -

कर्मेति ।

सौगतानां कल्पनामाह -

केवलस्येति ।

आत्मा खल्वालयज्ञानसन्तानस्तस्य वृत्तयः शब्दादिज्ञानानि तल्लाभः शरीरान्तरे भवति । केवलशब्दस्तु करणसाहित्यमात्मनो वारयति ।

कथं तर्हि देहान्तरे करणानीत्याशङ्क्य पञ्चेन्द्रियाणि चक्षुरादीनि गोलकमात्रत्वान्मनसश्च समनन्तरप्रत्ययमात्रत्वादभिनवानामेव तेषां शरीरान्तरे जन्मेत्याह -

इन्द्रियाणीति ।

वैशेषिककल्पनामाह -

मन इति ।

केवलं करणैरात्मना च रहितमिति यावत् । करणानि नूतनान्येव तत्रारभ्यन्त आत्मा तु विभुत्वादक्रियोऽपि तत्र वृत्तिमात्रमाप्नोति । भोगस्थानं भोगायतनं नूतनशरीरमित्यर्थः ।

दिगम्बरकल्पनामाह -

जीव इति ।

वेदवाह्यकल्पनामुपसंहरति -

इत्येवमाद्या इति ।

लोकायतकल्पनामाद्यग्रहणेन सङ्गृह्णाति । ते हि देहमात्रात्मवादिनो भस्मीभावमेवात्मनो मन्यन्ते न कस्यचिद्गमनम् ।

तासामनादर्तव्यत्वे हेतुं स्फुटयति -

श्रुतीति ॥ १ ॥