सूत्राक्षराणि व्याचष्टे -
तुशब्देनेति ।
अपां त्र्यात्मकत्वेऽपि प्रकृते किं जातं, तदाह -
तास्विति ।
एवं तर्हि भूतत्रयारब्धत्वमेव न त्रिवृत्कृततदारभ्यत्वमित्यपरितोषात्पक्षान्तरमाह -
त्र्यात्मकश्चेति ।
पञ्चानां भूतानां कार्यस्य गन्धस्वेदपाकप्राणावकाशदानस्य दर्शनात्कार्यत्रयस्यैवोपलब्धिरसिद्धेत्यपरितोषात्पक्षान्तरमाह -
पुनश्चेति ।
वातपित्तश्लेष्मभिः शरीरधारणात्मकैर्धातुभिस्त्रिधातुत्वात्त्र्यामक इति योजना ।
एवं त्र्यात्मकत्वेऽपि कथं भूतान्तराणामारम्भकत्वं, तत्राह -
नेति ।
वातपित्तयोर्वायुतेजोजन्ययोर्देहे दर्शनादित्यर्थः ।
कथं तर्हि प्रश्नप्रतिवचनयोर्नियमेनापां ग्रहणं, तत्राह -
तस्मादिति ।
भूयस्त्वादितिसूत्रावयवमुपसंहारव्याजेन व्याख्यातं प्रत्यक्षावष्टम्भेनोपपादयति -
सर्वेति ।
द्रवांशस्य भूयस्त्वादपां ग्रहणम् । कठिनांशस्य ततोऽपि बाहुल्यदृष्टेरयुक्तमपां ग्रहणमिति शङ्कते -
नन्विति ।
पञ्चात्मके देहे पार्थिवांशबाहुल्येऽपि भूयस्त्वमपामविरुद्धं भूतान्तरापेक्षया सम्भवादित्याह -
नैष इति ।
किञ्च देहोपादानयो रेतोलोहितयोरपां बाहुल्यात्तेनैव भूतान्तरोपलक्षणं युक्तमित्याह -
दृश्यते चेति ।
देहनिमित्तानां कर्मणामब्बाहुल्याच्च ताभिर्भूतान्तरलक्षणेत्याह -
कर्म चेति ।
सोमादीनामिहैव भस्मीभावान्न तद्गतमब्बाहुल्यं देहान्तरारम्भोपयोगीत्याशङ्क्याह -
कर्मेति ।
आपो हि स्थूलकर्मसाधनतया तत्सम्बन्धिन्यः सूक्ष्मरूपेण पुरुषमाश्रिताः श्रद्धाशब्दाः सह कर्मसंस्कारैर्द्युलोकाग्नौ हुताश्चन्द्रलोके देहमारभन्त इति वक्ष्यमाणत्वादस्ति तासां देहारम्भोपयोग इत्यर्थः ।
निमित्तगतमपि द्रवबाहुल्यं देहारम्भोपयोगीति स्थिते युक्तमद्भिर्भूतान्तरोपलक्षणमित्युपसंहरति -
तस्मादिति ।
अप्शब्देन भूतान्तरोपलक्षणे भूतसूक्ष्मपञ्चकपरिवेष्टितस्य युक्तैव गतिरित्याह -
इतीति ॥ २ ॥