ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
प्राणगतेश्च ॥ ३ ॥
प्राणानां च देहान्तरप्रतिपत्तौ गतिः श्राव्यते — ‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तꣳ सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४ । ४ । २) इत्यादिश्रुतिभिः । सा च प्राणानां गतिर्नाश्रयमन्तरेण सम्भवतीत्यतः प्राणगतिप्रयुक्ता तदाश्रयभूतानामपामपि भूतान्तरोपसृष्टानां गतिरवगम्यते । न हि निराश्रयाः प्राणाः क्वचिद्गच्छन्ति तिष्ठन्ति वा, जीवतो दर्शनात् ॥ ३ ॥

किञ्च भौतिकप्राणगत्यनुपपत्त्या तत्कारणभूतगतिरवश्यम्भाविनी भूतगतिश्चेदिष्टा देहान्तरारम्भकत्वमपि तेषां स्यादित्याह -

प्राणेति ।

सूत्रं विभजते -

प्राणानां चेति ।

तेषां गमनेऽपि कुतो देहबीजानां भूतानां गतिः, तत्राह -

सा चेति ।

स्वतन्त्राणामेव प्राणानां गमनं किं न स्यादित्याशङ्क्याह -

नहीति ।

प्राणा हि जीवतः साश्रया दृष्टास्तेनोत्क्रमणेऽपि तेषां साश्रयत्वमित्यर्थः ॥ ३ ॥