ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ४ ॥
स्यादेतत् — नैव प्राणा देहान्तरप्रतिपत्तौ सह जीवेन गच्छन्ति, अग्न्यादिगतिश्रुतेः । तथा हि श्रुतिः मरणकाले वागादयः प्राणा अग्न्यादीन्देवान्गच्छन्तीति दर्शयति — ‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणः’ (बृ. उ. ३ । २ । १३) इत्यादिना इति चेत् , न, भाक्तत्वात् । वागादीनामग्न्यादिगतिश्रुतिर्गौणी, लोमसु केशेषु च अदर्शनात् — ‘ओषधीर्लोमानि वनस्पतीन्केशाः’ (बृ. उ. ३ । २ । १३) इति हि तत्राम्नायते, न हि लोमानि केशाश्चोत्प्लुत्य ओषधीर्वनस्पतींश्च गच्छन्तीति सम्भवति । न च जीवस्य प्राणोपाधिप्रत्याख्याने गमनमवकल्पते । नापि प्राणैर्विना देहान्तरे उपभोग उपपद्यते । विस्पष्टं च प्राणानां सह जीवेन गमनमन्यत्र श्रावितम् । अतो वागाद्यधिष्ठात्रीणामग्न्यादिदेवतानां वागाद्युपकारिणीनां मरणकाले उपकारनिवृत्तिमात्रमपेक्ष्य वागादयोऽग्न्यादीन्गच्छन्तीत्युपचर्यते ॥ ४ ॥

प्राणानां साश्रयत्वेऽपि जीवेन सह गतिरसिद्धेत्याशङ्क्य प्रत्याह -

अग्न्यादीति ।

चोद्यं विवृणोति -

स्यादिति ।

उक्तं हेतुं व्यनक्ति -

तथाहीति ।

परिहारं व्याकरोति -

नेत्यादिना ।

अदर्शनादोषधिवनस्पतिगमनस्येति शेषः ।

तदेव विशदयितुमादौ गतिं प्रसञ्जयति -

ओषधीरिति ।

तत्रापि मुख्यैव गतिः स्यादित्याशङ्क्याह -

नहीति ।

अग्न्यादिगतिश्रुतिनां तमुत्क्रामन्तमित्यादिश्रुतीनां च मिथोविरोधेऽग्न्यादिगतिश्रुतिरौपचारिकी तत्प्रायपाठादित्युक्तम् । इदानीं जीवगतिश्रुत्यनुपपत्त्यापि प्राणगतिदृष्टेरग्न्यादिगतिश्रुतिरौपचारिकीत्याह -

नचेति ।

इतश्च प्राणानां जीवेन सह गतेरावश्यकत्वादग्न्यादिगतिश्रुतिरौपचारिकीत्याह -

नापीति ।

सहगतिश्रुतिरेव कस्मादौपचारिकी न स्यादित्याशङ्क्य निमित्ताभावादित्याह -

बिस्पष्टं चेति ।

अन्यत्र तमुत्क्रामन्तमित्यादावित्यर्थः ।

अग्न्यादिगतिश्रुतेरौपचारिक्तवं निमित्तोक्तिपूर्वकमुपसंहरति -

अत इति ॥ ४ ॥