भूतान्तरोपसृष्टानामपां गमनमुपपाद्य पञ्चम्यामाहुतौ तासां पुरुषाकारत्वमुक्तमाक्षिप्य समाधत्ते -
प्रथम इति ।
चोद्यं विभजते -
स्यादिति ।
श्रवणाभावं दर्शयितुमग्नीन्प्रस्तौति -
इहेति ।
पञ्चाग्निविद्याप्रकरणं सप्तम्यर्थः ।
द्युलोकप्रभतृयो द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चाहुतयः श्रद्धासोमदृष्ट्यन्नरेतोरूपास्तथापि कथं प्रथमेऽग्नावपामश्रवणं, तत्राह -
तेषाञ्चेति ।
प्रथमविशेषणमनर्थकमन्यत्राप्यश्रवणादित्याशङ्क्य कथञ्चिदन्यत्र श्रवणेऽपि प्रकृते तन्नास्तीत्याह -
यदीति ।
तर्हि कल्प्यतामपामेव प्रथमेऽपि होम्यत्वमविशेषादित्याशङ्क्याह -
प्रथमे त्विति ।
तत्रापि श्रद्धाशब्देनापामेवोक्तेर्नाश्रवणमित्याशङ्क्याह -
श्रद्धा चेति ।
श्रुतिलक्षणयोः श्रुतिर्न्याय्येति भावः ।
प्रथमेऽग्नावपामश्रुतिफलमाह -
तस्मादिति ।
सिद्धान्तभागं विभजते -
नेत्यादिना ।
श्रद्धाशब्दस्यार्थान्तरे रूढेर्न तेनापामुक्तिरिति शङ्कित्वा सूत्रावयवं व्याचष्टे -
कुत इत्यादिना । एवं हीति ।
श्रुद्धाशब्देनापां ग्रहे सतीति यावत् ।
सङ्गानं सम्प्रतिपत्तिः । तामेव व्यतिरेकेण स्फोरयति -
इतरथेति ।
यदुक्तमितरथा पुनरिति तदेव स्फुटयति -
पञ्चम्यामिति ।
श्रद्धाशब्दस्याद्भ्योऽर्थान्तरत्वं दूषयति -
तत इति ।
यदि चतुर्ष्वेव स्थानेष्वपां होम्यता तदा चतुर्थ्यामाहुताविति वाच्यं पञ्चम्यामिति विशेषणात्प्रथमस्थानेऽपि तासामेव होम्यता सिद्धेत्यर्थः ।
उपसंहारालोचनायामपि श्रद्धाशब्दत्वमपामेवेत्याह -
इति त्विति ।
उपपत्तेरित्यस्यार्थान्तरमाह -
श्रद्धेति ।
श्रद्धापरिणामस्य सोमादेरब्बहुलत्वेऽपि श्रद्धाशब्दत्वमपामित्यत्र किमायातं तदाह -
सा चेति ।
गोमयवृश्चिकादौ प्रत्यक्षेण विलक्षणत्वदृष्टेर्वृष्ट्यादेः श्रद्धाकार्यस्याब्बहुलत्वेऽपि कारणस्य श्रद्धाया मा भूदप्त्वमित्याशङ्क्याह -
कारणेति ।
क्वचिद्वैलक्षण्यस्य प्रवृत्तत्वादिष्टत्वेऽपि श्रद्धापरिणामस्य सोमादेरब्बहुलत्वोपलब्धेः श्रद्धायास्तथात्वं कल्प्यते । वैलक्षण्यग्राहिण्यसति माने कल्पनाया दृष्टानुसारित्वादित्यर्थः ।
यत्तु प्रसिद्ध्या प्रत्ययविशेषः श्रद्धेति, तत्राह -
नचेति ।
जुहोतिश्रुतिसामर्थ्यान्मुख्यार्थत्यागे संनिहितवाक्यानुसारेण लक्षणेत्याह -
इत्याप इति ।
नच धर्मिणा सहैव होमस्तत्रापि लक्षणाध्रौव्ये संनिहितवाक्यानुसारिण्यास्तस्या न्याय्यत्वादिति भावः ।
उपपत्तेरिति भागं विधान्तरेण व्याचष्टे -
श्रद्धेति ।
वृद्धप्रयोगाभावे कथं वैदिकोऽपि प्रयोगः स्यादित्याशङ्क्य तस्यौपचारिकत्वमाह -
तनुत्वमिति ।
सूक्ष्मत्वगुणादप्सु श्रद्धाशब्दस्य गौणत्वे दृष्टान्तमाह -
यथेति ।
श्रद्धाशब्दस्याप्सु गौणत्वमुक्त्वा लाक्षणिकत्वमाह -
श्रद्धेति ।
यत्कर्म श्रद्धापूर्वकं तदुपायत्वेनापां तद्योगात्परम्परया श्रद्धायोगिनीष्वप्सु तच्छब्द इत्यर्थः ।
लक्षणानिमित्तं सम्बन्धान्तरमाह -
श्रद्धेति ।
अपां श्रद्धाहेतुत्वे मानमाह -
आपो हेति ।
अस्मै पुंसेऽधिकारिणे संनमन्ते जनयन्ति दर्शनमात्रेण स्नानादिपुण्यकर्मसिद्ध्यर्थं श्रद्धामित्यर्थः ॥ ५ ॥