ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ ८ ॥
इष्टादिकारिणां धूमादिना वर्त्मना चन्द्रमण्डलमधिरूढानां भुक्तभोगानां ततः प्रत्यवरोह आम्नायते — ‘तस्मिन्यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतम्’ (छा. उ. ५ । १० । ५) इत्यारभ्य, — यावत् — रमणीयचरणा ब्राह्मणादियोनिमापद्यन्ते कपूयचरणाः श्वादियोनिमिति । तत्रेदं विचार्यते — किं निरनुशया भुक्तकृत्स्नकर्माणोऽवरोहन्ति, आहोस्वित्सानुशया इति । किं तावत्प्राप्तम् ? निरनुशया इति । कुतः ? ‘यावत्सम्पातम्’ इति विशेषणात् — सम्पातशब्देनात्र कर्माशय उच्यते, सम्पतन्ति अनेन अस्माल्लोकात् अमुं लोकं फलोपभोगायेति । ‘यावत्सम्पातमुषित्वा’ इति च कृत्स्नस्य तस्य कृतस्य तत्रैव भुक्ततां दर्शयति । ‘तेषां यदा तत्पर्यवैति’ (बृ. उ. ६ । २ । १६) इति च श्रुत्यन्तरेणैष एवार्थः प्रदर्श्यते । स्यादेतत् — यावदमुष्मिँल्लोके उपभोक्तव्यं कर्म तावदुपभुङ्क्त इति कल्पयिष्यामीति । नैवं कल्पयितुं शक्यते, ‘यत्किञ्च’ इत्यन्यत्र परामर्शात् — ‘प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे’ (बृ. उ. ४ । ४ । ६) इति हि अपरा श्रुतिः ‘यत्किञ्च’ इत्यविशेषपरामर्शेन कृत्स्नस्येह कृतस्य कर्मणः तत्र क्षयिततां दर्शयति । अपि च प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकम्; प्राक्प्रायणात् आरब्धफलेन कर्मणा प्रतिबद्धस्याभिव्यक्त्यनुपपत्तेः । तच्च अविशेषाद्यावत्किञ्चिदनारब्धफलं तस्य सर्वस्याभिव्यञ्जकम् । न हि साधारणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति । न ह्यविशिष्टे प्रदीपसन्निधौ, घटोऽभिव्यज्यते न पट इत्युपपद्यते । तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते ब्रूमः —

कर्मसमवायिनीनामपां पञ्चमाहुतौ पुम्परिणामहेतुमाश्रित्याद्भिः परिवेष्टितजीवगतिरुक्ता, सम्प्रति स्वर्गादवरोहतां कर्मैव नास्ति कुतस्तत्समवायिन्य आपः कुतस्तरां पुम्परिणाम इत्याशङ्क्याह -

कृतेति ।

येषां पूर्वत्र चन्द्रमण्डलारोहणमुक्तं त एव प्रत्यवरोहन्तो विषय इति वक्तुं प्रत्यवरोहवाक्यमुदाहरति -

इष्टादीति ।

ततश्चन्द्रमण्डलादिति यावत् । तस्मिन्नित्यपि तदेवोक्तम् । भोक्तव्यकर्मसमाप्त्यानन्तर्यमथशब्दार्थः । यथेतमित्यारभ्य श्वादियोनिमित्यन्तं वाक्यं यावदाम्नायत इति योजना ।

यावत्सम्पातमिति विशेषणाद्रमणीयचरणा रमणीयां योनिमित्यादिवाक्याच्च संशयमाह -

तत्रेति ।

प्रकृतेषु प्रत्यवरोहत्सु जीवेष्विति यावत् ।

निरनुशयशब्दार्थमेव स्पष्टयति -

भुक्तेति ।

अत्रापि प्रत्यवरोहतां सानुशयत्वसमर्थनद्वारा वैराग्याय संसारगतिरेव निरूप्यत इति पूर्ववत्पादादिसङ्गतिमभिप्रेत्य पूर्वपक्षमाकाङ्क्षापूर्वकं गृह्णाति -

किं तावदिति ।

पूर्वपक्षे गतिरेव कर्मकृता तदभावकृता त्वागतिः सिद्धान्ते कर्मकृतत्वाविशेषो द्वयोरिति फलभेदः ।

तत्र प्रश्नपूर्वकं लिङ्गं हेतूकरोति -

कुत इति ।

यावत्पतनमुषित्वेत्येतावदत्र भाति न तु कर्मणः सर्वस्य भुक्तत्वमित्याशङ्क्याह -

सम्पातेति ।

यावत्पतनं तावदपतनमिति वचनमनर्थकमिति मत्वा वाक्यार्थमाह -

यावदिति ।

चन्द्रमण्डले सर्वकर्मोपभोगे श्रुत्यन्तरसंमतिमाह -

तेषामिति ।

इष्टादिकारिणां यदा तद्भोक्तव्यं कर्म पर्यवैति परिगच्छति परिक्षीणं भवति तदा तत आवर्तन्त इत्युत्तरेणान्वयः ।

यावच्छब्दोपबन्धस्य गत्यन्तरं शङ्कते -

स्यादिति ।

श्रुत्यन्तरविरोधेन प्रत्याह -

नैवमिति ।

तदेव प्रपञ्चयति -

प्राप्येति ।

अयं संसारी यत्किञ्चिदिह लोके कर्म करोति तस्यान्तं फलं परलोके प्राप्य तस्माल्लोकात्पुनरस्मै लोकाय कर्मानुष्ठानार्थमागच्छति । पुनःशब्दात्पूर्वमप्यागत इति गम्यते संसारस्यानादित्वादित्यर्थः ।

परामर्शश्रुतेस्तात्पर्यमाह -

इति हीति ।

न चोपसंहारे ब्राह्मण्यादिहेतुकर्मावगमादुपक्रमस्यापि सङ्कोचस्तदनुसारेणोपसंहारस्य नेतव्यत्वात् । उपक्रमे च यावत्सम्पातमिति श्रवणात्तस्य च प्रथमश्रुतस्य बलीयस्त्वाद्ब्राह्मण्यादिप्रापकचरणस्य चाचारतया कर्मणोऽर्थान्तरत्वात् ‘यथाकारी यथाचारी’ इत्यादिषु भेदेन तयोरुक्तत्वान्न कर्मणा ब्राह्मणादियोन्यापत्तिरिति भावः ।

न केवलं श्रुत्यैवैतद्गम्यते किन्तु युक्त्यापीत्याह -

अपिचेति ।

विमतं स्वसंनिहिताविशेषाभिव्यञ्जकमभिव्यञ्जकत्वात्प्रादीपवत् । अभिव्यक्तिश्च कर्मणां फलदानायोन्मुखत्वम् ।

तत्र किञ्चिद्भुज्यते किञ्चिन्नेत्यशक्यं वक्तुमित्याशयवानाह -

प्रायणमिति ।

मरणस्यानारब्धसर्वकर्माभिव्यञ्जकत्वे हेतुमाह -

प्रागिति ।

अस्तु तर्हि प्रायणं प्रबलस्य कर्मणो व्यञ्जकं तत्राह -

तच्चेति ।

तदुपपादयति -

नहीति ।

उक्तमर्थं दृष्टान्तेन साधयति -

नहीति ।

श्रुतियुक्तिभ्यां सर्वस्य कर्मणश्चन्द्रलोेके भुक्तफलत्वेन क्षयितत्वे फलितमाह -

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।