ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ ८ ॥
कृतात्ययेऽनुशयवानिति । येन कर्मबृन्देन चन्द्रमसमारूढाः फलोपभोगाय, तस्मिन्नुपभोगेन क्षयिते, तेषां यदम्मयं शरीरं चन्द्रमस्युपभोगायारब्धम् , तत् उपभोगक्षयदर्शनशोकाग्निसम्पर्कात्प्रविलीयते — सवितृकिरणसम्पर्कादिव हिमकरकाः, हुतभुगर्चिःसम्पर्कादिव च घृतकाठिन्यम् । ततः कृतात्यये कृतस्येष्टादेः कर्मणः फलोपभोगेनोपक्षये सति, सानुशया एवेममवरोहन्ति । केन हेतुना ? दृष्टस्मृतिभ्यामित्याह । तथा हि प्रत्यक्षा श्रुतिः सानुशयानामवरोहं दर्शयति — ‘तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा’ (छा. उ. ५ । १० । ७) इति । चरणशब्देनात्रानुशयः सूच्यत इति वर्णयिष्यति । दृष्टश्चायं जन्मनैव प्रतिप्राण्युच्चावचरूप उपभोगः प्रविभज्यमान आकस्मिकत्वासम्भवादनुशयसद्भावं सूचयति, अभ्युदयप्रत्यवाययोः सुकृतदुष्कृतहेतुत्वस्य सामान्यतः शास्त्रेणावगमितत्वात् । स्मृतिरपि — ‘वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते’ (गौ. ध. सू. २ । २ । २९) इति सानुशयानामेवावरोहं दर्शयति ॥

प्रतिज्ञां विभजते -

येनेति ।

हेतुमाकाङ्क्षाद्वाराऽवतार्य व्याकरोति -

केनेति ।

तत् तत्र तेषां मध्ये ये केचिदिह कर्मभूमौ रमणीयचरणास्ते रमणीयां योनिमापद्येरन्निति यत्तदभ्याशो ह क्षिप्रमेवाप्रतिबन्धेनेत्यर्थः ।

रमणीयां योनिं विशिनष्टि -

ब्राह्मणेति ।

प्रत्यवरोहतां शुभकर्मवतां शुभयोनिप्राप्तिमुक्त्वा तेषामेवाशुभकर्मवतामशुभयोनिप्राप्तिमाह -

अथेति ।

कपूयचरणा निन्दितकर्माणः । शेषं पूर्ववत् ।

ननु चरणादाचाराद्योन्यापत्तिरत्रोच्यते नानुशयादन्यच्चरणमन्योऽनुशयस्तत्राह -

चरणेति ।

अनुशेते भोक्तारमनुगच्छतीत्यनुशयः कर्मसमूहः स चरणशब्दार्थो भविष्यतीत्यर्थः ।

दृष्टशब्देन प्रत्यक्षश्रुतिरुक्ता । व्याख्यानान्तरमाह -

दृष्टश्चेति ।

सर्वप्राणिषु जन्मारभ्य दृष्टोऽयमुत्कृष्टापकृष्टात्मा भोगोऽदृष्टनिमित्तः, भोगत्वात्स्वर्गादिभोगवदित्यर्थः । कथमाकस्मिकत्वासम्भवः, तत्राह -

अभ्युदयेति ।

‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’ इति सुखदुःखयोः सुकृतदुष्कृतकार्यत्वस्य सिद्धत्वाद्यो भोगः स कर्मनिमित्त इति व्याप्तेरनुशयसिद्धिरित्यर्थः ।

दृष्टं व्याख्याय स्मृतिं व्याचष्टे -

स्मृतिरपीति ।

प्रेत्य प्रायणं कृत्वा चन्द्रलोकमधिरुह्येत्यर्थः । ततः शेषेण भुक्तादन्येन कर्मणा जन्म प्रतिपद्यन्त इति सम्बन्धः । श्रुतं ज्ञानम् । वृत्तमाचारः । देशश्च जातिश्च कुलं च रूपं चायुश्च श्रुतं च वृत्तं च वित्तं च सुखं च मेधा च ते विशिष्टा येषु ते तथोक्ताः ।