ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ ८ ॥
कः पुनरनुशयो नामेति ? केचित्तावदाहुः — स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम, भाण्डानुसारिस्नेहवत् — यथा हि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते, भाण्डानुसार्येव कश्चित्स्नेहशेषोऽवतिष्ठते, तथा अनुशयोऽपीति । ननु कार्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषावस्थानं न्याय्यम्; नायं दोषः । न हि सर्वात्मना भुक्तफलत्वं कर्मणः प्रतिजानीमहे । ननु निरवशेषकर्मफलोपभोगाय चन्द्रमण्डलमारूढाः; बाढम् — तथापि स्वल्पकर्मावशेषमात्रेण तत्रावस्थातुं न लभ्यते । यथा किल कश्चित्सेवकः सकलैः सेवोपकरणैः राजकुलमुपसृप्तश्चिरप्रवासात्परिक्षीणबहूपकरणश्छत्रपादुकादिमात्रावशेषो न राजकुलेऽवस्थातुं शक्नोति, एवमनुशयमात्रपरिग्रहो न चन्द्रमण्डलेऽवस्थातुं शक्नोतीति ॥

अनुशयशब्दस्यार्थान्तरे रूढेर्निर्धारणार्थं पृच्छति -

कः पुनरिति ।

एकदेशिमतमाह -

केचिदिति ।

तत्पक्षे किमिष्टादिकर्मस्वशेषतो भुक्तफलेष्वननुभुक्तकर्मान्तरवशादावृत्तिः, अथवा तेषामेववशेषादिति संशये भुक्तत्वादिष्टादीनामभुक्तकर्मान्तरादावृत्तिरिति प्राप्ते कृतात्ययेऽनुशयवानिति व्याचष्टे -

स्वर्गेति ।

यदिष्टादि स्वर्गार्थं कृतं तस्य भुक्तस्यात्यये कश्चिदवशेषोऽनुशयस्तद्वानवरोहतीत्यर्थः ।

दृष्टेतिपदस्यार्थमाह -

भाण्डेति ।

तदेव प्रपञ्चयति -

यथेति ।

भाण्डानुसारिणः स्नेहस्याविरोधाद्युक्तः शेषः ।

कर्म तु फलोदयविरोधित्वात्फलं चेज्जातं नष्टमेवेति न तस्य शेषसिद्धिरिति शङ्कते -

नन्विति ।

कृत्स्नस्य कर्मणो यदि फलं जातं तदा नावशेषसिद्धिर्न तु तदस्तीत्याह -

नायमिति ।

येन कर्मणा चन्द्रमसमारूढास्तत्कर्म सर्वं तत्र न भुक्तमित्ययुक्तमिति शङ्कते -

नन्विति ।

भोगार्थं चन्द्रारोहणमङ्गीकृत्य विरोधं समाधत्ते -

बाढमिति ।

अत्रापि दृष्टेति व्याचष्टे -

यथेति ।