ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
अनिष्टादिकारिणामपि च श्रुतम् ॥ १२ ॥
इष्टादिकारिणश्चन्द्रमसं गच्छन्तीत्युक्तम् । ये त्वितरेऽनिष्टादिकारिणः, तेऽपि किं चन्द्रमसं गच्छन्ति, उत न गच्छन्तीति चिन्त्यते । तत्र तावदाहुः — इष्टादिकारिण एव चन्द्रमसं गच्छन्तीत्येतत् न । कस्मात् ? यतोऽनिष्टादिकारिणामपि चन्द्रमण्डलं गन्तव्यत्वेन श्रुतम् । तथा हि अविशेषेण कौषीतकिनः समामनन्ति — ‘ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति’ (कौ. उ. १ । २) इति । देहारम्भोऽपि च पुनर्जायमानानां न अन्तरेण चन्द्रप्राप्तिम् अवकल्पते, ‘पञ्चम्यामाहुतौ’ इत्याहुतिसंख्यानियमात् । तस्मात्सर्व एव चन्द्रमसमासीदेयुः । इष्टादिकारिणामितरेषां च समानगतित्वं न युक्तमिति चेत् , न, इतरेषां चन्द्रमण्डले भोगाभावात् ॥ १२ ॥

इष्टादिकारिणामनुशयवतामागतिरुक्ता । संप्रत्यनिष्टादिकारिणामपि चन्द्रस्थलस्खलितानामनुशयवतामागतिमभिप्रेत्य चोदयति -

अनिष्टादीति ।

प्रथमाधिकरणेनास्य सङ्गतिमाह -

इष्टादीति ।

व्यावहितमनूद्यानिष्टादिकारिणो विषयीकृत्य ये वै के चेत्यविशेषश्रुतेर्वैवस्वतं सङ्गमनं जनानामिति श्रुतेश्च संशयं दर्शयति -

ये त्विति ।

अत्र चानिष्टादिकारिणां शुभमार्गेण गमनमात्रमपि नेत्युक्त्या वैराग्ये दृढीकृते पूर्ववदेव पादादिसङ्गतयः ।

पूर्वपक्षे शुभाशुभकारिणामविशेषेण चन्द्रगतेस्तत्र शुभकरणमकिञ्चित्करमिति फलति, सिद्धान्ते त्वशुभकारिणां गत्यन्तरध्रौव्याच्चन्द्रगतौ प्रयोजकमिष्टाद्येवेति मत्वा पूर्वपक्षसूत्रं योजयति -

तत्रेति ।

तेषामिष्टादिकं कर्म चन्द्रलोकप्रापकमस्तीत्यतो नियमनिषेधो न युक्तिमानिति शङ्कते -

कस्मादिति ।

श्रुत्या परिहरति -

यत इति ।

तामेवोदाहरति -

यथाहीति ।

श्रुतेश्चन्द्रलोकगमनमुपपाद्य चकारसूचितयुक्तितोऽपि तदुपपादयति -

देहेति ।

देवयानपितृयाणातिरेकेण गमनागमनमार्गाश्रवणादथैतयोः पथोर्न कतरेणचनेत्यारभ्य जायस्व म्रियस्वेत्येतत्तृतीयं स्थानमिति स्थानमात्रत्वश्रुत्या पथित्वेनाप्रतीतेश्चन्द्रमण्डलं प्राप्यावतीर्णानामपि तद्योगान्न केषाञ्चिदेव गतिरिति मत्वोपसंहरति -

तस्मादिति ।

सर्वेषां तुल्यगतित्वे तत्प्राप्तिहेत्वनुष्ठानवैयर्थ्यमिति शङ्कते -

इष्टादीति ।

तत्र भोगाभावेऽपि मार्गान्तरशून्यतया ग्रामं गच्छन्वृक्षमूलान्युपसर्पतीतिवदुपपन्ना गतिरित्याह -

नेतरेषामिति ॥ १२ ॥