ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ १३ ॥
तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति — सर्वे चन्द्रमसं गच्छन्तीति । कस्मात् ? भोगायैव हि चन्द्रारोहणम् , न निष्प्रयोजनम् । नापि प्रत्यवरोहायैव, — यथा कश्चिद्वृक्षमारोहति पुष्पफलोपादानायैव, न निष्प्रयोजनम् , नापि पतनायैव । भोगश्च अनिष्टादिकारिणां चन्द्रमसि नास्तीत्युक्तम् । तस्मादिष्टादिकारिण एव चन्द्रमसमारोहन्ति, नेतरे । ते तु संयमनं यमालयमवगाह्य स्वदुष्कृतानुरूपा यामीर्यातना अनुभूय पुनरेव इमं लोकं प्रत्यवरोहन्ति । एवंभूतौ तेषामारोहावरोहौ भवतः । कुतः ? तद्गतिदर्शनात् । तथा हि यमवचनसरूपा श्रुतिः प्रयताम् अनिष्टादिकारिणां यमवश्यतां दर्शयति — ‘न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे’ (क. उ. १ । २ । ६) इति । ‘वैवस्वतं सङ्गमनं जनानाम्’ इत्येवंजातीयकं च बह्वेव यमवश्यताप्राप्तिलिङ्गं भवति ॥ १३ ॥

सिद्धान्तमुपक्रमते -

संयमने त्विति ।

सूत्रं व्याचष्टे -

तुशब्द इति ।

पक्षव्यावृत्तिमेव व्यनक्ति -

नैतदिति ।

का पुनरत्रानुपपत्तिः । तत्र तेषां तद्गमनमफलं सफलं वेति विकल्प्याद्यं प्रत्याह -

भोगायेति ।

द्वितीये ऽपि गमनस्य प्रत्यवरोहो वा भोगो वा फलं, नाद्य इत्याह -

नापीति ।

पक्षद्वयनिरासं दृष्टान्तेन स्पष्टयति -

यथेति ।

कल्पान्तरं निरस्यति -

भोगश्चेति ।

तुशब्दार्थमुपसंहरति -

तस्मादिति ।

कथं तर्हि तेषामारोहावरोहावित्याशङ्क्य संयमने त्वनुभूयेत्यादि विभजते -

ते त्विति ।

तत्र प्रश्नपूर्वकं हेतुमाह -

कुत इति ।

हेतुं व्याचष्टे -

तथाहीति ।

प्रयतां प्रेत्य गच्छतां सम्परायः परलोकः । सम्यगवश्यम्भावेन परा परस्ताद्देहपातादीयते गम्यत इति व्युत्पत्तेः । तत्प्राप्त्यर्थः साधनविशेषः साम्परायः । स बालमविवेकिनं विशेषतो वित्तनिमित्तेन मोहेन मूढं छन्नदृष्टिमत एव प्रमाद्यन्तं प्रमादं कुर्वन्तं विषयप्रवणं प्रति न भाति । स न केवलमज्ञ एव किन्तु विपरीतदर्शी च यस्मादयमेव लोकस्त्र्यन्नपानादिरस्ति न पर इति मानी मननशीलस्तस्मात्तदनुरूपमाचरन्पुनःपुनर्जननमरणप्राप्त्या मे वशमापद्यत इति मृत्योर्नचिकेतसं प्रति वचनम् ।

श्रुत्यन्तरमाह -

वैवस्वतमिति ।

जनानां परलोकगतानां सङ्गमनं सङ्गम्यं वैवस्वतं यमं राजानं हविषा दुवस्यत प्रीणयतेत्यर्थः ।

‘ये वै के चास्मा’ दित्यादिश्रुत्या सर्वेषां चन्द्रगतिः सिद्धेत्युक्तमित्याशङ्क्य विरोध्यनेकलिङ्गदृष्ट्या तदन्यथा नेयमित्याह -

बह्वेवेति ।

‘ये वै के च’ ‘वैवस्वतं सङ्गमनम्’ इत्यनयोर्वाक्ययोः सामान्येन चन्द्रलोकयमलोकगतिवादिनोर्विद्याकर्मविशेषितमार्गद्वयभ्रष्टानामनिष्टादिकारिणां तृतीयस्थानगतिवादिवाक्येनेष्टादिकारिणां चन्द्रगतिवाक्येन च विशेषार्थेन विषयविशेषनियतिरिति भावः ॥ १३ ॥