मार्गद्वयभ्रष्टानां तृतीयस्थानोक्तेरपि नानिष्टादिकारिणां चन्द्रगतिरित्याह -
विद्येति ।
हेत्वन्तरमेव प्रकटयन्भूमिकोक्तिपूर्वकं श्रुतिमुदाहरति -
पञ्चेति ।
तद्विद्येति प्रकरणमुक्तम् । श्रौती प्लुतिर्विचारणार्था । तृतीयस्थानोक्त्यारम्भार्थोऽथशब्दः । तत्प्रतिपत्तिफलमाह -
तेनेति ।
श्रुत्यर्थं सूत्रयोजनया विशदयति -
तत्रेति ।
उक्ता श्रुतिः सप्तम्यर्थः ।
पथिशब्दस्यार्थान्तरे रूढेर्विद्याकर्मार्थत्वे न मानमिति शङ्कते -
कस्मादिति ।
तत्र प्रकरणं प्रमाणयति -
प्रकृतत्वादिति ।
तदेव विवृणोति -
विद्येति ।
प्रतिपत्तौ प्रतिपत्तिसाधने । तत्र देवयानस्य पथो विद्याद्वारा प्रकृतत्वं प्रकटयति -
तद्य इति ।
कर्मद्वारा पितृयाणस्यापि प्रकृतत्वमाह -
इष्टेति ।
विद्याकर्मणोरेवं प्रकृतत्वेऽपि प्रकृते किं जातं तदाह -
तदिति ।
विद्याकर्महीनानां क्षुद्रजन्तुभावोऽत्र निर्दिश्यते न पुनस्तृतीयोऽध्वेत्याशङ्क्याह -
एतदिति ।
मार्गद्वयभ्रष्टानामनिष्टादिकारिणां तृतीयस्थानोक्तिफलमाह -
तस्मादिति ।
यदिदं तृतीयस्थानकीर्तनं तन्न चन्द्रगतिं वारयत्यागत्यापि तत्प्राप्तिसम्भवादिति शङ्कते -
स्यादिति ।
मानफलाभ्यां हि कल्पना न चेह तदुभयं, तथाच नैव कल्पनेत्याह -
तदपीति ।
प्रतिवचनस्य कृत्स्नाननुरूपत्वप्रसङ्गादपि नेयं कल्पनेत्याह -
अपिचेति ।
कथं तर्हि प्रश्नानुगुणं प्रतिवचनं, तत्राह -
तथाहीति ।
गमनेऽपि तस्य प्रश्नानुगुणत्वसिद्धिरित्याह -
अवरोहेति ।
अवरोहकृतासम्पूरणस्याश्रुतेर्नैवमपि श्रुतहान्यादि कल्पयितव्यमित्याह -
नेति ।
तदेव प्रपञ्चयति -
सत्यमिति ।
तर्हि तथैवासम्पूरणं स्यादित्याशङ्क्य श्रुतिविरोधान्मैवमित्याह -
श्रुतिस्त्विति ।
श्रुतिसिद्धमसम्पूरणं निगमयति -
तेनेति ।
किमिति तदवरोहणकृतमेव श्रुतावपि नेष्टमित्याशङ्क्याह -
अवरोहस्येति ।
युक्त्या स्वपक्षमुपपाद्य परपक्षं चापनुद्य पूर्ववाद्युद्भावितवाक्यस्य सूत्राक्षरेणैव गतिं दर्शयितुमारभते -
तुशब्दस्त्विति ।
उच्छित्तिप्रकारं प्रकटयति -
एवमिति ।
उक्तन्यायेनादिष्टादिकारिणां चन्द्रगत्ययोगे सतीति यावत् । अधिकृतशब्देनेष्टादिकारिणो गृह्यन्ते ।
सर्वशब्दस्याधिकृतार्थत्वे स्थिते स्थितं वाक्यार्थमाह -
ये वा इति ॥ १७ ॥