ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
न तृतीये तथोपलब्धेः ॥ १८ ॥
न तृतीये स्थाने देहलाभाय पञ्चसंख्यानियम आहुतीनामादर्तव्यः । कुतः ? तथोपलब्धेः । तथा हि अन्तरेणैवाहुतिसंख्यानियमं वर्णितेन प्रकारेण तृतीयस्थानप्राप्तिरुपलभ्यते — ‘जायस्व म्रियस्वेत्येतत्तृतीयꣳ स्थानम्’ (छा. उ. ५ । १० । ८) इति । अपि च ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ (छा. उ. ५ । ३ । ३) इति मनुष्यशरीरहेतुत्वेन आहुतिसंख्या सङ्कीर्त्यते, न कीटपतङ्गादिशरीरहेतुत्वेन, पुरुषशब्दस्य मनुष्यजातिवचनत्वात् । अपि च पञ्चम्यामाहुतावपां पुरुषवचस्त्वमुपदिश्यते, न अपञ्चम्यामाहुतौ पुरुषवचस्त्वं प्रतिषिध्यते, वाक्यस्य द्व्यर्थतादोषात् । तत्र येषामारोहावरोहौ सम्भवतः, तेषां पञ्चम्यामाहुतौ देह उद्भविष्यति । अन्येषां तु विनैवाहुतिसंख्यया भूतान्तरोपसृष्टाभिरद्भिर्देह आरप्स्यते ॥ १८ ॥

प्रतिज्ञां पूरयन्योजयति -

नेत्यादिना ।

पृष्ट्वा हेतुमुक्त्वा व्याचष्टे -

कुत इति ।

भोगाय हि चन्द्रारोहणमित्यादिवर्णितः प्रकारः ।

उपलम्भमेवाभिनयति -

जायस्वेति ।

ज्ञानकर्मशून्या हि कृमिकीटादिभावेन पुनः पुनर्जायन्ते म्रियन्ते चेति प्रसिद्धम् । नच तत्राहुतिसङ्ख्योपलभ्यते । नच तेषां निरन्तरं जायमानानां म्रियमाणानां चाहुतिसङ्ख्या कल्प्यते दृष्टविरोधे कल्पनानवकाशादित्यर्थः ।

किञ्च देहमात्रहेतुत्वेनाहुतिसङ्ख्या नियम्यते मनुष्यदेहहेतुत्वेन वा तत्राद्यं पुरुषशब्दविरोधेन प्रत्याह -

अपिचेति ।

द्वितीयं निराह -

अपिचेत्यादिना ।

तत्र हेतुमाह -

वाक्यस्येति ।

तस्य विधिनिषेधार्थद्वयार्थतायां वाक्यभेदादैक्ये च सम्भवति तदयोगदित्यर्थः ।

पञ्चम्यामाहुतावपां पुरुषाकारपरिणामेऽपि नापञ्चम्यामाहुतौ तासां तन्निषेधश्चेत्तर्हि तासामुभयथा देहारम्भसम्भवे कथं व्यवस्थेत्याशङ्क्याह -

तत्रेति । अन्येषां त्विति ।

चन्द्रमण्डलं प्रत्यारोहश्च येषां न युक्तस्तेषामिति यावत् ॥ १८ ॥