ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
स्मर्यतेऽपि च लोके ॥ १९ ॥
अपि च स्मर्यते लोके, द्रोणधृष्टद्युम्नप्रभृतीनां सीताद्रौपदीप्रभृतीनां च अयोनिजत्वम् । तत्र द्रोणादीनां योषिद्विषया एका आहुतिर्नास्ति । धृष्टद्युम्नादीनां तु योषित्पुरुषविषये द्वे अप्याहुती न स्तः । यथा च तत्र आहुतिसंख्यानियमानादरो भवति, एवमन्यत्रापि भविष्यति । बलाकापि अन्तरेणैव रेतःसेकं गर्भं धत्त इति लोकरूढिः ॥ १९ ॥

मनुष्यदेहारम्भं प्रत्याहुतिसङ्ख्यानियमाभावे स्मृतिं संवादयति -

स्मर्यतेऽपीति ।

सूत्रं व्याकरोति -

अपिचेति ।

लोकशब्देन सूत्रभाष्ययोरितिहासादिरपि व्युत्पत्त्योच्यते ।

अयोनिजत्वाविशेषेऽपि द्रोणादिष्ववान्तरविशेषमाह -

तत्रेति ।

तद्दृष्टान्तेनानिष्टादिकारिष्वप्याहुतिसङ्ख्यानियमाभावधीरिति फलितमाह -

यथेति ।

देहमात्रहेतुत्वेनाहुतिसङ्ख्यानियमो नेत्यत्रापि सूत्रस्य तात्पर्यमस्तीत्याह -

बलाकेति ॥ १९ ॥