ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥
ननु तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति ‘आण्डजं जीवजमुद्भिज्जम्’ (छा. उ. ६ । ३ । १) इत्यत्र त्रिविध एव भूतग्रामः श्रूयते । कथं चतुर्विधत्वं भूतग्रामस्य प्रतिज्ञातमिति, अत्रोच्यते —

श्रुत्यन्तरविरोधं शङ्कते -

नन्विति ।

अण्डजमेवाण्डजं पक्ष्यादि । जीवजं जरायुजम् । उद्भिद्य जायत इत्युद्भिज्जं वृक्षादि ।

छान्दोग्यश्रुतिविरोधं सूत्रेण परिहरति -

अत्रेति ।