अनिष्टादिकारिणामारोहावरोहरूपा गतिरुक्ता सम्प्रतीष्टादिकारिणामवशिष्टमवरोहप्रकारं निरूपयति -
साभाव्येति ।
व्यवहितेन सम्बन्धं दर्शयति -
इष्टादीति ।
विषयवाक्यमुदाहरति -
तत्रेति ।
चन्द्रमसि भोगं समाप्य प्राप्तावरोहेष्विष्टादिकारिष्विति यावत् । चन्द्रे भोक्तव्यकर्मणः समाप्त्यानन्तर्यमथेत्युक्तम् । एतमेव वक्ष्यमाणं पन्थानं पुनर्निवर्तन्ते पुनःशब्दादनादौ संसारे पूर्वमपि चन्द्रं गता निवृत्ताश्चेति गम्यते ।
कोऽसावध्वा यं प्रति निवर्तन्ते तमाह -
यथेति ।
यथागतं मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमिति गमनक्रम आगमनेऽप्याकाशोक्तेर्यथेतमिति भाति पितृलोकाद्यकीर्तनादभ्रादिसङ्कीर्तनाच्चानेवमपीति गम्यते । तथाच यथेतमित्युपलक्षणं याः खल्वापश्चन्द्रमण्डले देहमारब्धवत्यस्ताः कर्मक्षये द्रुता आकाशं गतास्तत्सदृशा यदा जायन्ते तदा तदुपहिता अनुशयिनोऽप्याकाशसमा भवन्तीत्याह -
आकाशादिति ।
तत्तुल्यतामापन्नाश्च वायुनेतश्चामुतश्च नीयमाना वायुसमा अनुशयिनोऽप्परिवेष्टिता वायुतुल्या भवन्तीत्याह -
आकाशमिति ।
तदनन्तरं यो धूमो गमनदशायामासीत्तत्तुल्यो भवत्यनुशयीत्याह -
वायुरिति ।
ततोऽपां धारणात्सम्भृतोदकं यदभ्रं तत्तुल्योऽनुशयीत्याह -
धूम इति ।
ततो जलसेचनान्मेघो वर्षणकर्ता तत्तुल्यः स सिध्यतीत्याह -
अभ्रमिति ।
तत्सादृश्यमापद्य वर्षधाराभिरनुशयी पृथिवीमापद्यत इत्याह -
मेघ इति ।
अवरोहत्सु देहभृत्सु विषयेष्वाकाशं वायुमिति कर्मत्वोक्तेर्धूमो भवतीत्यादि भवतिश्रुतेश्च सन्देहमाह -
तत्रेति ।
देवयानपितृयाणौ पन्थानौ प्रक्रम्य तृतीयत्वोक्तेर्युक्तं स्थानशब्दस्य मार्गलक्षणत्वम् ।
भवतिश्रुतेश्च सादृश्यलक्षणत्वे हेत्वभावात्तादात्म्यार्थत्वमेवेति पूर्वपक्षयति -
तत्रेत्यादिना ।
अत्र चावरोहरूपसंसारगतिनिरूपणद्वारा वैराग्यदृढीकरणात्पूर्ववत्पादादिसङ्गतयः । पूर्वपक्षे भवतिश्रुतेर्मुख्यार्थत्वसिद्धिः । सिद्धान्ते तूपपत्त्या लाक्षणिकार्थत्वधीः ।
यथेतमाकाशमाकाशाद्वायुमित्यत्र तादात्म्यादृष्टेरन्यस्य चान्यात्मत्वासिद्धेर्नाकाशादितादात्म्यमनुशयिनामिति शङ्कते -
कुत इति ।
वायुर्भूत्वेत्यादौ तादात्म्यसिद्धेर्नहुषादिषु चाजगरादिभावानुभवाद्यथेतमाकाशमित्यादावपि तादात्म्यमेवेति परिहरति -
एवं हीति ।
भवतिश्रुतेः सादृश्यलक्षकत्वेऽपि नानुपपत्तिरित्याशङ्क्याह -
इतरथेति ।
सापि शब्दवृत्तित्वादाश्रितेत्याशङ्क्याह -
श्रुतीति ।
श्रुतेर्मुख्यार्थत्वे तदक्षरानुकूल्यं फलमाह -
तथाचेति ।
पूर्वोक्तप्राकरेण श्रुतेर्मुख्यार्थत्वमाश्रित्यानुशयिनामाकाशादिस्वरूपापत्तावक्षराणि सम्यञ्चि भवन्तीत्यर्थः ।
श्रुत्या पूर्वपक्षमुपसंहरति -
तस्मादिति ।
आकाशादितादात्म्यं प्रत्याख्यातुं प्रयतितव्यमिति पक्षमनुभाष्य सिद्धान्तयति -
एवमिति ।
समानो भावः साभाव्यं सादृश्यं तदापत्तिरिति योजनया प्रतिज्ञां विवृणोति -
आकाशादीति ।
कथं पुनश्चेतनानामनुशयिनामचेतनैराकाशादिभिः सादृश्यमित्याशङ्क्य प्रतिज्ञातमेवार्थं प्रकटयति -
चन्द्रेति ।
प्रतिज्ञासमाप्तावितिशब्दः । उक्तेऽर्थे श्रुतिमुदाहरति -
तदेतदिति ।
भवतिश्रुत्या तादात्म्यमेवोपेयं न तत्सादृश्यमिति शङ्कते -
कुत इति ।
तत्र हेतुमवतार्य व्याकरोति -
उपपत्तेरिति ।
एवं हीत्याकाशादिसादृश्याङ्गीकारे सतीति यावत् । एतदित्याकाशादिभवनमुक्तम् ।
युक्तं हि नहुषादिदेहारम्भकभूतानामजगरादिभावेन परिणामित्वं तद्देहानामयौगपद्यादिह तु सूक्ष्मदेहस्याकाशादेश्चापर्यायत्वान्न परस्परात्मतेत्युक्तमेव साधयति -
नहीति ।
वायुर्भूत्वेत्यादिश्रुतेस्तर्हि का गतिः, तत्राह -
आकाशेति ।
अनुशयिनामाकाशादिभ्यस्तिलमाषान्तेभ्यः स्वेनैव रूपेण निष्क्रमणान्यथानुपपतिरूपश्रुतार्थापत्त्यान्यस्य पूर्वसिद्धान्यभावानुपपत्त्यनुगृहीतया विरोधादुपचरिततद्भावापत्तिविषया श्रुतिरिति भावः ।
आकाशादिना संयोगमात्रं भवतिश्रुत्या लक्ष्यतां किं सादृश्येनेत्याशङ्क्याकाशे तदनुपपत्तेरवैरूप्यार्थं वाय्वादावपि सादृश्यमेवेत्याह -
विभुत्वाच्चेति ।
यदुक्तमेवं सति श्रुतिर्भवतीतरथा लक्षणेति, तत्राह -
श्रुतीति ।
अनुशयिनामाकाशादितादात्म्यायोगात्तत्तुल्यतापत्तेः श्रुत्यर्थत्वात्तत्परिहाराय प्रेक्षाकारिणा प्रयत्नवता भाव्यमित्युपसंहरति -
अत इति ॥ २२ ॥