ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
अन्याधिष्ठितेषु पूर्ववदभिलापात् ॥ २४ ॥
तस्मिन्नेवावरोहे प्रवर्षणानन्तरं पठ्यते — ‘त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते’ (छा. उ. ५ । १० । ६) इति । तत्र संशयः — किमस्मिन्नवधौ स्थावरजात्यापन्नाः स्थावरसुखदुःखभाजोऽनुशयिनो भवन्ति, आहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेषु स्थावरशरीरेषु संश्लेषमात्रं गच्छन्तीति । किं तावत्प्राप्तम् ? स्थावरजात्यापन्नास्तत्सुखदुःखभाजोऽनुशयिनो भवन्तीति । कुत एतत् ? जनेर्मुख्यार्थत्वोपपत्तेः, स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः, पशुहिंसादियोगाच्च इष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः । तस्मान्मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म, श्वादिजन्मवत् — यथा ‘श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा’ इति मुख्यमेवानुशयिनां श्वादिजन्म तत्सुखदुःखान्वितं भवति, एवं व्रीह्यादिजन्मापीति । एवं प्राप्ते ब्रूमः —

अनुशयिनामाकाशादिप्रवर्षणान्तसादृश्यं चिरभावि, तत्सादृश्यत्वात् , व्रीह्यादिसादृश्यवदित्यस्य विशेषणश्रुत्या बाधमुक्त्वा प्रकृतावरोहवाक्यैकदेशमवशिष्टं विचारयति -

अन्येति ।

सङ्गतिं सूचयन्विषयमाह -

तस्मिन्निति ।

त इहेति तच्छब्देनानुशयिनो गृह्यन्ते । व्यवहारभूमिः सप्तम्यर्थः ।

व्रीह्यादिभावमापन्नेष्वनुशयिषु, जायत इति श्रुतेः कर्मपूर्वकत्वाश्रुतेश्च विचारहेतुं संशयमाह -

तत्रेति । अस्मिन्नवधाविति ।

आकाशादिवर्षणान्ततत्सादृश्यापत्त्यनन्तरदशायामित्यर्थः । अत्र च स्थावरभावस्य संसारगतेरालोचनद्वारा वैराग्यस्यैव दृढीकारणात्पादादिसङ्गतिः । पूर्वपक्षे व्रीह्यादिजन्मनो मुख्यत्वेऽनुश्यिनां तत्परिहारायाधिकृतेनाधिकं प्रयतितव्यम् ।

सिद्धान्ते तदीयसंश्लेषमात्रं निराकर्तुं प्रयत्नलाघवमिति विवक्षित्वा विमर्शापूर्वकं पूर्वपक्षयति -

किं तावदिति ।

आकाशादिष्विव व्रीह्यादिष्वपि संश्लेषमात्रं न तद्देहतेति शङ्कते -

कुत इति ।

विशेषं दर्शयन्परिहरति -

जनेरिति ।

जीवस्य जन्माभावेऽपि देवो जातो मनुष्यो जात इत्यादौ तत्तद्देहाभिमानद्वारा जनेर्मुख्यत्वदर्शनात्तत्रापि मुख्यत्वार्थं देहाभिमानपूर्वकं सुखदुःखभाक्त्वमास्थेयमित्यर्थः ।

कथं स्थावरभावे जनेर्मुख्यत्वं नहि तत्र देहाभिमानपूर्वकं मनुष्यादिदेहवद्भोगोऽस्ति, तत्राह -

स्थावरेति ।

‘स्थाणुमन्येऽनुसंयन्ति’ इत्याद्या श्रुतिः ‘शरीरजैः कर्मदोषैर्याति स्थावरतां नरः’ इत्याद्या च स्मृतिः ।

ननूदाहृताभ्यां श्रुतिस्मृतिभ्यां पापफलत्वं स्थावरभावस्य भाति तत्कथमिष्टादिकारिणां चन्द्रस्थलस्खलितानां तत्प्राप्तिः शङ्क्यते, तत्राह -

पश्विति ।

सोमपानावसरे परस्परमुच्छिष्टभक्षणमादिशब्देन विवक्षितम् ।

‘अग्नीषोमीयं पशुमालभेत’ इति विशेषशास्त्रान्न हिंस्यादित्यादिसामान्यशास्त्रस्य विशेषविषये बाधात्पशुहिंसनस्य नानिष्टफलतेत्याशङ्क्य क्रत्वर्थतया पुरुषार्थतया च विधिनिषेधयोर्भिन्नार्थत्वेनाविरोधाद्बाध्यबाधकत्वासिद्धेरशक्यं पशुहिंसनस्य निषेधाधिगतमनर्थहेतुत्वमपाकर्तुमित्याशयवानुपसंहरति -

तस्मादिति ।

पशुहिंसादेरङ्गत्वान्न स्वातन्त्र्येण व्रीह्यादिजन्महेतुतेत्याशङ्क्य पापान्तरस्य तद्धेतुत्वे दृष्टान्तमाह -

श्वादीति ।

अवरोहाधिकारे श्वादिभावः श्रुतो नेत्याशङ्क्य श्रुत्यन्तरमाह -

यथेति ।

अनुशयिनां व्रीह्यादिजन्मनो मुख्यत्वे तत्परिहारायाधिकृतेन प्रयत्नगौरवं कर्तव्यमित्युपसंहर्तुमितिशब्दः ।

पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञां पूरयतित्वा योजयति -

एवमिति ।