ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
अन्याधिष्ठितेषु पूर्ववदभिलापात् ॥ २४ ॥
अन्यैर्जीवैरधिष्ठितेषु व्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते, न तत्सुखदुःख भाजो भवन्ति, पूर्ववत् — यथा वायुधूमादिभावोऽनुशयिनां तत्संश्लेषमात्रम् , एवं व्रीह्यादिभावोऽपि जातिस्थावरैः संश्लेषमात्रम् । कुत एतत् ? तद्वदेवेहाप्यभिलापात् । कोऽभिलापस्य तद्वद्भावः ? कर्मव्यापारमन्तरेण सङ्कीर्तनम् — यथा आकाशादिषु प्रवर्षणान्तेषु न कञ्चित्कर्मव्यापारं परामृशति, एवं व्रीह्यादिजन्मन्यपि । तस्मान्नास्त्यत्र सुखदुःखभाक्त्वमनुशयिनाम् । यत्र तु सुखदुःखभाक्त्वमभिप्रैति, परामृशति तत्र कर्मव्यापारम् — ‘रमणीयचरणाः’ ‘कपूयचरणाः’ इति । अपि च मुख्येऽनुशयिनां व्रीह्यादिजन्मनि, व्रीह्यादिषु लूयमानेषु कण्ड्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमानिनोऽनुशयिनः प्रवसेयुः । यो हि जीवो यच्छरीरमभिमन्यते, स तस्मिन्पीड्यमाने प्रवसति — इति प्रसिद्धम् । तत्र व्रीह्यादिभावाद्रेतःसिग्भावोऽनुशयिनां नाभिलप्येत । अतः संसर्गमात्रमनुशयिनामन्याधिष्ठितेषु व्रीह्यादिषु भवति । एतेन जनेर्मुख्यार्थत्वं प्रतिब्रूयात् , उपभोगस्थानत्वं च स्थावरभावस्य । न च वयमुपभोगस्थानत्वं स्थावरभावस्यावजानीमहे । भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येन स्थावरभावमुपगतानाम् एतत् उपभोगस्थानम् । चन्द्रमसस्तु अवरोहन्तोऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे ॥ २४ ॥

तव सौत्रं दृष्टान्तमादाय व्याचष्टे -

पूर्ववदिति ।

जनेर्मुख्यत्वाय व्रीह्यादिष्वनुशयिनस्तत्सुखदुःखभाजो भवन्तीत्युक्तम् ।

तथाच तेषां तेषु न संश्लेषमात्रमिति शङ्कते -

कुत इति ।

पूर्ववदिति सूत्रभागस्यार्थद्वयविवक्षया प्रयुक्तत्वादर्थान्तरं दर्शयन्परिहरति -

तद्वदिति ।

वायुर्भूत्वेत्यादौ व्रीह्यादिवाक्ये चोक्तिसाम्येऽपि स्थावरादिभावस्यानुशयिनां विरोधिनी पूर्ववाक्ये व्रीह्यादिवाक्ये वा न काचिदुक्तिरस्तीति शङ्कते -

कोऽभिलापस्येति ।

कर्मपरिणामनिमित्तत्वकथनं विना तद्भावोक्तिस्तद्देहत्वप्राप्त्यभावे लिङ्गमिति ब्रुवन्नभिलापस्य तद्वद्भावमाह -

कर्मेति ।

अन्तरेण कर्मव्यापारं व्रीह्यादितेति नास्ति सङ्कीर्तनमित्याशङ्क्य कर्मविशेषव्यापारस्य निमित्तत्वेनानुक्तिरिष्टेत्याह -

यथेति ।

अनुशयिनां व्रीह्यादिभावेन जन्मास्मिन्प्रकरणे कर्मव्यापारोक्तिं विनोक्तत्वादाकाशादिभाववदिति फलितमाह -

तस्मादिति ।

किञ्च ब्राह्मणादिजन्मन्येव रमणीयचरणा इत्यादिकर्मकीर्तनं प्रागपि तज्जन्मनो व्रीह्यादिभावेन जन्मसत्त्वे व्यर्थं स्यात् । अतो नास्ति पुरस्ताज्जन्मेति श्रुतार्थापत्तिमाह -

यत्रेति ।

किञ्च यो यो ह्यन्नमत्तीत्यादिनोत्तरत्र पुरुषाहुतिसम्बन्धोऽनुशयिनां श्रूयते स च तेषां व्रीह्यादिभावेन जन्मोपगमेन तल्लवनादौ प्रवासप्रसङ्गदयुक्तः स्यादतो न पूर्वं मुख्यं जन्मेति श्रुतार्थापत्त्यन्तरमाह -

अपिचेति ।

जीवानां व्रीह्यादिभ्योऽन्यत्वात्तत्पीडनेऽपि न प्रवासोऽस्तीत्याशङ्क्याह -

यो हीति ।

अनुशयिनां प्रवासेऽपि का क्षतिः, तत्राह -

तत्रेति ।

पूर्वोक्तहेतुफलमुपसंहरति -

अत इति ।

यत्तु जनेर्मुख्यत्वसिद्धेर्भोगस्थानत्वाच्च स्थावरत्वस्य मुख्यमेवानुशयिनां व्रीह्यादिजन्मेति, तत्राह -

एतेनेति ।

उक्तयुक्त्या जन्मश्रुतेरुपचरितार्थत्वेनेति यावत् ।

अनुशयिनां वा स्थावरजीवानां वा स्थावरभावस्य भोगस्थानतेति विकल्प्याद्यमुक्तन्यायेन दूषयति -

उपभोगेति ।

यदनुशयिनां स्थावरत्वस्य भोगस्थानत्वं तच्च प्रतिब्रूयादिति सम्बन्धः ।

द्वितीयमङ्गीकरोति -

नचेति ।

केषां तर्हि तदुपभोगायतनं, तत्राह -

भवत्विति ।

अन्येऽपि न तत्र भोक्तारो व्रीह्यादिसंश्लिष्टत्वादनुशयिवदित्याशङ्क्य तद्देहपरिणामिपापराहित्युमुपाधिरित्याह -

अपुण्येति ।

अनुशयिनामपि ब्रीह्यादिभावानुकूलपापविशेषवत्त्वं कल्प्यमित्युपाधेरसम्भवमाशङ्क्य निरतिशयपुण्यकारिणां प्रबलपापरिग्रहायोगादल्पपापैश्च स्थावरत्वासिद्धेर्मैवमित्याह -

चन्द्रमसस्त्विति ॥ २४ ॥