ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥
यत्पुनरुक्तम् — पशुहिंसादियोगादशुद्धमाध्वरिकं कर्म, तस्यानिष्टमपि फलमवकल्पत इत्यतो मुख्यमेवानुशयिनां व्रीह्यादिजन्म अस्तु । तत्र गौणी कल्पना अनर्थिकेति — तत्परिह्रियते — न, शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य । अयं धर्मः अयमधर्म इति शास्त्रमेव विज्ञाने कारणम् , अतीन्द्रियत्वात्तयोः । अनियतदेशकालनिमित्तत्वाच्च — यस्मिन्देशे काले निमित्ते च यो धर्मोऽनुष्ठीयते, स एव देशकालनिमित्तान्तरेष्वधर्मो भवति । तेन न शास्त्रादृते धर्माधर्मविषयं विज्ञानं कस्यचिदस्ति । शास्त्राच्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्यवधारितः, स कथमशुद्ध इति शक्यते वक्तुम् । ननु ‘न हिंस्यात्सर्वा भूतानि’ इति शास्त्रमेव भूतविषयां हिंसाम् अधर्म इत्यवगमयति । बाढम् — उत्सर्गस्तु सः । अपवादः ‘अग्नीषोमीयं पशुमालभेत’ इति । उत्सर्गापवादयोश्च व्यवस्थितविषयत्वम् । तस्माद्विशुद्धं कर्म वैदिकम्; शिष्टैरनुष्ठीयमानत्वात् अनिन्द्यमानत्वाच्च । तेन न तस्य प्रतिरूपं फलम् जातिस्थावरत्वम् । न च श्वादिजन्मवदपि व्रीह्यादिजन्म भवितुमर्हति । तद्धि कपूयचरणानधिकृत्य उच्यते । नैवमिह वैशेषिकः कश्चिदधिकारोऽस्ति । अतश्चन्द्रमण्डलस्खलितानामनुशयिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्यते ॥ २५ ॥

परोक्तमनूद्य निरस्यति -

अशुद्धमिति ।

अनुवादं विभजते -

यदिति ।

इष्टादिकारिणोऽनिष्टफलवत्त्वसम्भवे फलितमाह -

इत्यत इति ।

एतेन गौणी जन्मश्रुतिरिति प्रत्युक्तमित्याह -

तत्रेति ।

व्रीह्यादिजन्मनो मुख्यत्वे सतीते यावत् । परिहारमवतारयति -

तदिति ।

न वैदिकं कर्माशुद्धमिति प्रतिज्ञायां शास्त्रहेतुत्वादित्युक्तं विवृणोति -

अयमिति ।

अनुमानमपि कस्मादस्मिन्नर्थे न प्रमाणमित्याशङ्क्य दृष्टं सामान्यतोऽदृष्टं वा तदिति विकल्प्याद्यं प्रत्याह -

अतीन्द्रियत्वादिति ।

द्वितीयन्दूषयति -

अनियतेति ।

तदेव प्रपञ्चयति -

यस्मिन्निति ।

शुद्धे हि देशे सायम्प्रातरित्यादौ काले जीवनादौ च निमित्ते योऽग्निहोत्रादिधर्मो निर्वर्त्यते स एवाशुद्धे देशे मध्यरात्रादौ काले मरणादौ च निमित्ते कुतः सन्नधर्म इति प्रसिद्धं तथाच न तत्र सामान्यतोदृष्टं सावकाशमित्यर्थः ।

धर्मादिज्ञानं नानुमानिकं किन्तु शास्त्रमात्रकृतमित्युक्तं तन्निगमयति -

तेनेति ।

शास्त्रादेव धर्मादिज्ञानेऽपि प्रकृते किं जातं, तदाह -

शास्त्राच्चेति ।

दुष्टत्वमपि ज्योतिष्टोमस्य निषेधाधिगतमिति साङ्ख्यः शङ्कते -

नन्विति ।

पशुहिसायां निषेधसामर्थ्यादनर्थहेतुत्वमौत्सर्गिकमित्यङ्गीकरोति -

बाढमिति ।

तथापि विधिसामर्थ्यात्तस्य क्रतूपकारित्वेन श्रेयोहेतुत्वमापवादिकमुपेयमित्याह -

अपवाद इति ।

तयोः सामान्यविशेषविषयत्वेन व्यवस्थितविषयत्वादविरुद्धतया न बाध्यबाधकतेत्युक्तं तत्राह -

उत्सर्गेति ।

पुशहिंसाया निषेधादनर्थहेतुत्वं क्रतूपकारो विधेरित्युभयार्थत्वाविरोधेऽपि परिहृत्यैवानर्थं क्रतूपकारेणार्थबाहुल्यहेतुत्वाभावेन विधिरनर्थकः स्यात् । नच श्येनेऽपि वैधी प्रवृत्तिरिति तस्य विशिष्टार्थहेतुता । सर्वत्र कामेषु करणांंशे रागात्प्रवृत्तिरितिकर्तव्यतांशे वैधीत्युपगमात् । ज्योतिष्टोमस्य श्येनस्यैव काम्यत्वेऽपि नाभिचरेदितिवदनिषिद्धत्वादग्नीषोमीयहिंसायामितिकर्तव्यरूपायां प्रवृत्तेर्विध्यधीनत्वाद्विशिष्टार्थसाधनत्वमेव । तथाच विधिनिषेधयोर्विरोधे सावकाशानवकाशन्यायेन व्यवस्थेति भावः ।

विधिनिषेधयोरविरोधे फलितमाह -

तस्मादिति ।

नानृतं वदेदितिवत्कस्यचित्प्रकरणे श्रुतत्वाभावात्पुरुषार्थत्वेन प्राप्तहननस्यैव न हिंस्यादिति निषेधाद्विहितक्रत्वर्थहिंसाया निषेधाविषयत्वान्नानर्थहेतुता । किं तु सुखफलत्वमेवेत्यर्थः ।

शिष्टैरनुष्ठीयमानमपि देशविशेषे मांसाशनादि विवादास्पदं देशान्तरे दृश्यते, तत्राह -

अनिन्द्यमानत्वादिति ।

वैदिकस्य कर्मणः शुद्धत्वे सिद्धमर्थमाह -

नेति ।

प्रतिरूपं प्रतिकूलमनिष्टमिति यावत् ।

कर्मान्तरनिबन्धनस्तर्हि ब्रीह्यादिभावोऽनुशयिनां भविष्यतीत्युक्तम् , तत्राह -

नचेति ।

इहेति व्रीह्यादिजन्मनीत्यर्थः । वैशेषिकोऽधिकारोऽसाधारणो हेतुः ।

अनुशयिनां तद्भावोक्तिस्तर्हि कथमित्यशङ्क्याह -

अत इति ॥ २५ ॥