ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
सन्ध्ये सृष्टिराह हि ॥ १ ॥
सन्ध्ये तथ्यरूपा सृष्टिरिति । सन्ध्यमिति स्वप्नस्थानमाचष्टे, वेदे प्रयोगदर्शनात् — ‘सन्ध्यं तृतीयꣳ स्वप्नस्थानम्’ इति; द्वयोर्लोकस्थानयोः प्रबोधसम्प्रसादस्थानयोर्वा सन्धौ भवतीति सन्ध्यम् । तस्मिन्सन्ध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हति — कुतः ? यतः प्रमाणभूता श्रुतिरेवमाह — ‘अथ रथान्रथयोगान्पथः सृजते’ (बृ. उ. ४ । ३ । १०) इत्यादि । ‘स हि कर्ता’ इति च उपसंहारात् एवमेवावगम्यते ॥ १ ॥

प्रतिज्ञां विवृण्वन्नादौ सन्ध्यशब्दार्थमाह -

सन्ध्यमितीति ।

तत्र मानमाह -

वेद इति ।

प्रथमप्रयोगाभावे कथं वैदिकप्रयोगसिद्धिरित्याशङ्क्य यौगिकत्वान्न तदपेक्षेत्याह -

द्वयोरिति ।

ऐहिकामुष्मिकं च यदैन्द्रियकं रूपादिज्ञानं तस्याभावादनुदयाच्च स्वप्नस्थानं तयोः सन्ध्यमुक्तम् । स्थूलदर्शनस्य चाभावाद्वासनामयज्ञानस्य तत्र भावात्प्रबोधसम्प्रसादयोर्वा सन्ध्यं स्वप्नस्थानमिति विवेक्तव्यम् ।

पदार्थमुक्त्वा प्रतिज्ञां पूरयति -

तस्मिन्निति ।

स्वप्नसृष्टेर्न सत्यत्वं मानाभावादित्याह -

कुत इति ।

श्रुतिं प्रमाणयन्नुत्तरमाह -

यत इति ।

बाह्यरथाद्यभावेऽपीत्यथशब्दः ।

न केवलं सृष्टिश्रुत्या स्वप्नसृष्टेः सत्यत्वं सकर्तृकत्वादपि तस्माज्जागरितसृष्टिवदर्थक्रियासामर्थ्यं सत्यत्वमेष्टव्यमित्याह -

स हीति ॥ १ ॥