ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
निर्मातारं चैके पुत्रादयश्च ॥ २ ॥
अपि च एके शाखिनः अस्मिन्नेव सन्ध्ये स्थाने कामानां निर्मातारमात्मानमामनन्ति — ‘य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः’ (क. उ. २ । २ । ८) इति; पुत्रादयश्च तत्र कामा अभिप्रेयन्ते — काम्यन्त इति । ननु कामशब्देनेच्छाविशेषा एवोच्येरन् । न, ‘शतायुषः पुत्रपौत्रान्वृणीष्व’ (क. उ. १ । १ । २३) इति प्रकृत्य अन्ते ‘कामानां त्वा कामभाजं करोमि’ (क. उ. १ । १ । २४) इति प्रकृतेषु तत्र पुत्रादिषु कामशब्दस्य प्रयुक्तत्वात् । प्राज्ञं चैनं निर्मातारं प्रकरणवाक्यशेषाभ्यां प्रतीमः । प्राज्ञस्य हीदं प्रकरणम् — ‘अन्यत्र धर्मादन्यत्राधर्मात्’ (क. उ. १ । २ । १४) इत्यादि । तद्विषय एव च वाक्यशेषोऽपि — ‘तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन’ (क. उ. २ । २ । ८) इति । प्राज्ञकर्तृका च सृष्टिस्तथ्यरूपा समधिगता जागरिताश्रया। तथा स्वप्नाश्रयापि सृष्टिर्भवितुमर्हति । तथा च श्रुतिः — ‘अथो खल्वाहुर्जागरितदेश एवास्यैष इति यानि ह्येव जाग्रत्पश्यति तानि सुप्तः’ (बृ. उ. ४ । ३ । १४) इति स्वप्नजागरितयोः समानन्यायतां श्रावयति । तस्मात्तथ्यरूपैव सन्ध्ये सृष्टिरिति ॥ २ ॥

किञ्च विमताः सत्याः, निर्मितत्वाज्जाग्रन्निर्मितरथादिवदित्याह -

निर्मातारं चेति ।

निर्मितान्कामान्विशिनष्टि -

पुत्रादयश्चेति ।

निर्मातारं चेत्यादि व्याकरोति -

अपिचेति ।

सुप्तेषु करणेषु निर्व्यापारेष्विति यावत् । स त्वया पृष्ट आत्मेति शेषः ।

कामशब्दस्य यौगिकार्थमाह -

पुत्रादयश्चेति ।

रूढिर्योगमपहरतीतिन्यायेन शङ्कते -

नन्विति ।

प्रकरणविरोधान्नात्र रूढिरित्याह -

नेत्यादिना ।

तत्रेति य एष इत्यादि यत्र श्रुतं तत्रैव प्रकरण इति यावत् । परकर्तृकत्वादपि सत्यैव स्वप्नसृष्टिः सम्प्रतिपन्नवदित्याह -

प्राज्ञं चेति ।

तद्विषयं प्रकरणं प्रकटयति -

प्राज्ञस्येति ।

तद्विषयं वाक्यशेषमपि विशदयति -

तदिति ।

दृष्टान्तस्य साध्यविकलतां प्रत्याह -

प्राज्ञेति ।

हेत्वसिद्धिमाशङ्क्य क्वचिज्जीवकर्तृकत्वश्रवणेऽपि जीवस्य प्राज्ञाभेदाय ब्रह्मणस्तद्भावात्प्राज्ञकर्तृकतेति मत्वा दार्ष्टान्तिकमाह -

तथेति ।

स्वप्नजागरितयोस्तुल्यदेशत्वश्रवणादपि स्वप्नस्य सत्यतेत्याह -

तथाचेति ।

स्वप्नजाग्रद्धियोरेकार्थत्वश्रुत्यापि स्वप्नसृष्टेः सत्यतेत्याह -

यानीति ।

उक्तश्रुतेस्तात्पर्यमाह -

स्वप्नेति ।

बाध्यत्वेन मिथ्यात्वमाशङ्क्य जागरितसृष्टेः श्रुत्या बाध्यत्वेऽपि तत्त्वसाक्षात्कारात्प्रागनुवृत्तेः सत्यत्ववदस्यापि स्वप्नस्य सत्यतेत्याह -

तस्मादिति ।

स्वप्नसृष्टेः सत्यत्वे तद्विशिष्टात्मनोऽशुद्धेर्न वाक्यार्थान्वयितेत्युपसंहर्तुमितीत्युक्तम् ॥ २ ॥