ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥
तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति — यदुक्तं सन्ध्ये सृष्टिः पारमार्थिकीति । मायैव सन्ध्ये सृष्टिः, न परमार्थगन्धोऽप्यस्ति । कुतः ? कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् — न हि कार्त्स्न्येन परमार्थवस्तुधर्मेण अभिव्यक्तस्वरूपः स्वप्नः । किं पुनरत्र कार्त्स्न्यमभिप्रेतम् ? देशकालनिमित्तसम्पत्तिः अबाधश्च । न हि परमार्थवस्तुविषयाणि देशकालनिमित्तानि अबाधश्च स्वप्ने सम्भाव्यन्ते । न तावत्स्वप्ने रथादीनामुचितो देशः सम्भवति । न हि संवृते देहदेशे रथादयोऽवकाशं लभेरन् । स्यादेतत् — बहिर्देहात् स्वप्नं द्रक्ष्यति, देशान्तरितद्रव्यग्रहणात् । दर्शयति च श्रुतिः बहिर्देहात्स्वप्नम् — ‘बहिष्कुलायादमृतश्चरित्वा । स ईयतेऽमृतो यत्र कामम्’ (बृ. उ. ४ । ३ । १२) इति । स्थितिगतिप्रत्ययभेदश्च न अनिष्क्रान्ते जन्तौ सामञ्जस्यमश्नुवीत — इति । नेत्युच्यते — न हि सुप्तस्य जन्तोः क्षणमात्रेण योजनशतान्तरितं देशं पर्येतुं विपर्येतुं च ततः सामर्थ्यं सम्भाव्यते । क्वचिच्च प्रत्यागमनवर्जितं स्वप्नं श्रावयति — कुरुष्वहमद्य शयानो निद्रयाभिप्लुतः, स्वप्ने पञ्चालानभिगतश्च अस्मिन्प्रतिबुद्धश्च — इति । देहाच्चेदपेयात् , पञ्चालेष्वेव प्रतिबुध्येत , तानसावभिगत इति । कुरुष्वेव तु प्रतिबुध्यते । येन च अयं देहेन देशान्तरमश्नुवानो मन्यते, तमन्ये पार्श्वस्थाः शयनदेश एव पश्यन्ति । यथाभूतानि च अयं देशान्तराणि स्वप्ने पश्यति, न तानि तथाभूतान्येव भवन्ति । परिधावंश्चेत्पश्येत् , जाग्रद्वत् वस्तुभूतमर्थमाकलयेत् । दर्शयति च श्रुतिरन्तरेव देहे स्वप्नम् — ‘स यत्रैतत्स्वप्न्यया चरति’ इत्युपक्रम्य ‘स्वे शरीरे यथाकामं परिवर्तते’ (बृ. उ. २ । १ । १८) इति । अतश्च श्रुत्युपपत्तिविरोधाद्बहिष्कुलायश्रुतिः गौणी व्याख्यातव्या — बहिरिव कुलायात् अमृतश्चरित्वेति; यो हि वसन्नपि शरीरे न तेन प्रयोजनं करोति, स बहिरिव शरीराद्भवति — इति । स्थितिगतिप्रत्ययभेदोऽप्येवं सति विप्रलम्भ एवाभ्युपगन्तव्यः ॥

अक्षरव्याख्यामारभते -

तुशब्द इति ।

पक्षव्यावृत्तिमेव व्यावर्त्यानुवादेन व्यनक्ति -

नैतदिति ।

पूर्वपक्षनिषेधं प्रतिज्ञायोत्तरपक्षं प्रतिजानीते -

मायेति ।

मायाविद्यायोर्भेदो नेति वक्तुं सूत्रभाष्ययोर्मायाशब्दः । सूत्रे मात्रशब्देन सति मातरि बाध्यत्वं नाम भ्रान्तिसिद्धत्वं स्वप्नस्य जाग्रद्वैलक्षण्यं विवक्षितम् ।

श्रुतियुक्तिभ्यां स्वप्नसृष्टेः सत्यत्वोक्तेर्नेयं प्रतिज्ञेति शङ्कते -

कुत इति ।

तयोरन्यथासिद्धेर्वक्ष्यमाणत्वं मत्वा हेतुमवतार्य व्याकरोति -

कार्त्स्न्येनेति ।

परमार्थवस्तुधर्मो योग्यदेशकालनिमित्तसाहित्यम् । वस्तुत्वस्य कात्स्नर्येन व्याप्तत्वात्तथाव्यक्त्यभावे तद्व्याप्यं वस्तुत्वमपि व्यावर्त्येतेत्यर्थः ।

एकस्यापि सर्वात्मनाऽनभिव्यक्तेः सर्वत्र वस्तुत्वव्यावृत्तिरित्याक्षिपति -

किमिति ।

अतिप्रसङ्गं प्रत्याख्यातुमिष्टं कार्त्स्न्यं व्याचष्टे -

देशेति ।

स्वप्नेऽपि तत्सिद्धिमाशङ्क्याह -

नेत्यादिना ।

तत्र स्वप्ने योग्यदेशायोगं विवृणोति -

न तावदिति ।

यत्र स्वप्नो दृश्यते स एव रथादीनां योग्यो देशः स्यादित्याशङ्क्य स किं देहादन्तर्बहिर्वेति विकल्प्याद्यं प्रत्याह -

नहीति ।

द्वितीयं शङ्कते -

स्यादिति ।

तत्रोपपत्तिमाह -

देशेति ।

तत्रैव श्रुतिमाह -

दर्शयतीति ।

देहाद्बहिरेव स्वप्नधीरित्यत्र युक्त्यन्तरमाह -

स्थितीति ।

अन्तरेव वा स्वप्नो न बहिरित्याह -

नेतीति ।

बहिर्गतस्यागत्यनियमात्तत्रैव प्रबोधप्रसङ्गादपि न स्वप्नो बहिरित्याह -

क्वचिच्चेति ।

श्रावयति स्वप्नद्रष्टा प्रबुद्धः सन्पार्श्वस्थानिति शेषः ।

उक्तमर्थं व्यतिरेकद्वारा स्फोरयति -

देहाच्चेदिति ।

इतश्च देहाद्बहिर्देशान्तरं गत्वा न स्वप्नधीरित्याह -

येनेति ।

न स्वप्नो देशान्तरं गतस्येत्यत्रैव हेत्वन्तरमाह -

यथेति ।

तदेव व्यतिरेकेणोपपादयति -

परिधावन्निति ।

देहाद्देहान्तरं गच्छन्निति यावत् ।

न केवलं स्वप्नोऽन्तरेवेत्युपपन्नं किन्तु श्रौतश्चेत्याह -

दर्शयतीति ।

एतदिति स्वप्नवाचि क्रियाविशेषणम् । स्वप्न्ययेति वृत्तिर्विशेष्यते ।

अन्तरेव स्वप्नश्चेत्कथं तर्हि बहिष्कुलायश्रुतिरिति, तत्राह -

अतश्चेति ।

कथं शरीरे वसतो बहिरेवेत्युक्तिरित्याशङ्क्योपचारे निमित्तमाह -

यो हीति ।

यत्तु स्थितिगतिप्रत्ययभेदसामञ्जस्याय स्वप्नो बहिरिति, तत्राह -

स्थितीति ।

एवं सतीति ।