परोक्तमनूद्य दूषयति -
यदित्यादिना ।
तदिति सुप्तस्य स्रष्टृत्वादिवचनम् । एवं सतीति पूर्वोक्तन्यायेन स्वप्नस्य मायामात्रत्वे सतीत्यर्थः ।
स्वप्नदृष्टरथादिस्रष्ट्टत्वादिवचसो गौणत्वं दृष्टान्तेन स्पष्टयति -
यथेति ।
लाङ्गलस्यापि गवाद्युद्वोढृत्वं मुख्यमेव किं न स्यादित्यत्राह -
न त्विति ।
तथापि दार्ष्टान्तिके मुख्यमेव स्रष्टृत्वं सुप्तस्य चेतनत्वेन स्रष्टृत्वयोगादित्याशङ्क्याह -
न तु प्रत्यक्षमिति ।
जाग्रतः स्रष्टृत्ववद्यदि सुप्तस्यापि तदिष्टं तर्हि सृष्टस्य रथादेर्न प्रबोधमात्रेण बाध्यता स्यादित्यर्थः ।
धर्माधर्मयोरेव निमित्तत्वात्कुतः सुप्तस्य निमित्ततेत्याशङ्क्य तत्फलित्वेन तत्कर्तृतयेत्याह -
निमित्तत्वं चेति ।
इतश्च श्रुत्या स्वप्नसृष्टिर्वास्तवी नाभीष्टेत्याह -
अपिचेति ।
हेत्वन्तरं स्फोरयति -
जागरित इति ।
अस्त्वात्मनः स्वयञ्ज्योतिष्ट्वविवेचनाय स्वप्नोक्तिस्तथापि स्वप्ने सृष्टिवचनं मुख्यमेवेत्याशङ्क्याह -
तत्रेति ।
जागरितादविशेषादित्यर्थः ।
पूर्वापरालोचनायां श्रुतेरन्यपरत्वादसत्त्वे रथादीनां सिद्धे फलितमाह -
तस्मादिति ।
यत्तु निर्मातारं चेत्यादि, तत्राह -
एतेनेति ।
रथादिसृष्टिवचनस्य भाक्तत्वोपपादनेनेति यावत् ।
परोक्तमनुमानमनूद्य हेत्वसिद्ध्या दूषयति -
यदपीति ।
स्वयं विहत्य पूर्वं देहं निश्चेष्टं कृत्वा स्वयं निर्मायापूर्वं वासनामयं देहं सम्पाद्य स्वेन भासा स्वकीयबुद्धिवृत्त्या स्वेन ज्योतिषा स्वरूपचैतन्येन चेत्यर्थः ।
न केवलं बृहदारण्यके जीवस्य स्वापकर्तृत्वं श्रुतं किन्तु काठकेऽपीत्याह -
इहापीति ।
प्रकरणवाक्यशेषाभ्यां परमात्मा निर्मातेत्युक्तमाशङ्क्य जीवभावमापन्नस्य परस्य स्वाविद्यया स्वप्नोदानत्वं वा विना तद्भावं स्वाविद्यया तदधिष्ठातृत्वं वेति विकल्प्याद्यमङ्गीकरोति -
नचेति ।
द्वितीयमपि स्वीकरोति -
तस्येति ।
तर्हि प्राज्ञकर्तृत्वहेतोः सिद्धेरनुमानमदुष्टमित्याशङ्क्य व्यावहारिकं पारमार्थिकं वा सत्यत्वं साध्यमिति विकल्प्याद्ये बाधकं प्रत्यक्षविरोधमाह -
पारमार्थिकस्त्विति ।
व्यवहारे बाधवैधुर्यमिह पारमार्थिकत्वम् ।
द्वितीये दृष्टान्तस्य साध्यविकलतेत्याह -
नचेति ।
वियदादिसर्गस्यासिद्धं मिथ्यात्वमिति कुतो दृष्टान्तस्य साध्यविकलता, तत्राह -
प्रतीति ।
कस्तर्हि स्वप्नस्य जाग्रतो विशेषो येनैतन्मिथ्यात्वं पृथगुच्यते, तत्रह -
प्राक्त्विति ।
व्यवहारेऽपि स्वप्नस्य मिथ्यात्वं वक्तुं पृथगुक्तिरिति भावः ॥ ४ ॥