ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
देहयोगाद्वा सोऽपि ॥ ६ ॥
कस्मात्पुनर्जीवः परमात्मांश एव सन् तिरस्कृतज्ञानैश्वर्यो भवति ? युक्तं तु ज्ञानैश्वर्ययोरतिरस्कृतत्वम् , विस्फुलिङ्गस्येव दहनप्रकाशनयोः — इति । उच्यते — सत्यमेवैतत् । सोऽपि तु जीवस्य ज्ञानैश्वर्यतिरोभावः, देहयोगात् देहेन्द्रियमनोबुद्धिविषयवेदनादियोगात् भवति । अस्ति च अत्रोपमा — यथा अग्नेर्दहनप्रकाशनसम्पन्नस्याप्यरणिगतस्य दहनप्रकाशने तिरोहिते भवतः, यथा वा भस्मच्छन्नस्य — एवमविद्याप्रत्युपस्थापितनामरूपकृतदेहाद्युपाधियोगात् तदविवेकभ्रमकृतो जीवस्य ज्ञानैश्वर्यतिरोभावः । वाशब्दो जीवस्य ईश्वरात् अन्यत्वशङ्काव्यावृत्त्यर्थः । नन्वन्य एव जीवः ईश्वरादस्तु, तिरस्कृतज्ञानैश्वर्यत्वात् । किं देहयोगकल्पनया ? नेत्युच्यते — न हि अन्यत्वं जीवस्य ईश्वरादुपपद्यते — ‘सेयं देवतैक्षत’ (छा. उ. ६ । ३ । २) इत्युपक्रम्य ‘अनेन जीवेनात्मनानुप्रविश्य’ (छा. उ. ६ । ३ । २) इत्यात्मशब्देन जीवस्य परामर्शात्; ‘तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो’ (छा. उ. ६ । ८ । ७) इति च जीवाय उपदिशति ईश्वरात्मत्वम् । अतः अनन्य एव ईश्वराज्जीवः सन् देहयोगात्तिरोहितज्ञानैश्वर्यो भवति । अतश्च न साङ्कल्पिकी जीवस्य स्वप्ने रथादिसृष्टिर्घटते । यदि च साङ्कल्पिकी स्वप्ने रथादिसृष्टिः स्यात् , नैवानिष्टं कश्चित्स्वप्नं पश्येत् , न हि कश्चिदनिष्टं सङ्कल्पयते । यत्पुनरुक्तम् — जागरितदेशश्रुतिः स्वप्नस्य सत्यत्वं ख्यापयतीति, न तत्साम्यवचनं सत्यत्वाभिप्रायम् , स्वयंज्योतिष्ट्वविरोधात् , श्रुत्यैव च स्वप्ने रथाद्यभावस्य दर्शितत्वात् । जागरितप्रभववासनानिर्मितत्वात्तु स्वप्नस्य तत्तुल्यनिर्भासत्वाभिप्रायं तत् । तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ॥ ६ ॥

जीवस्य स्वत एवानाविर्भूतज्ञानैश्वर्यतया सङ्कल्पमात्रं न स्रष्टृतेत्युक्तं तत्र हेत्वसिद्धिमाशङ्क्याह -

देहयोगाद्वा सोऽपीति ।

सूत्रव्यावर्त्यमाह -

कस्मादिति ।

आक्षेपं विवृणोति -

युक्तं त्विति ।

पारमार्थिकस्य प्रतिबन्धस्याभावः साध्यते प्रातिभासिकस्य वेति विकल्पयति -

उच्यत इति ।

आद्यमङ्गीकरोति -

सत्यमिति ।

द्वितीयं दूषयति -

सोऽपीति ।

सूत्रे देहशब्देन स्थूलं सूक्ष्मं च देहं गृहीत्वा व्याचष्टे -

देहेति ।

वेदनाशब्देन सुखादयो गृह्यन्ते । आदिशब्देन तद्धेतुरविद्या ।

तद्धर्मकस्यैवान्यसम्पर्कतिरस्कारे दृष्टान्तमाह -

अस्तीति ।

अरणिस्थोऽग्निरस्तीत्येतदेव सन्दिग्धमित्याशङ्क्याह -

यथा वेति ।

दार्ष्टान्तिकमाह -

एवमिति ।

सूत्रे वाशब्दस्य पक्षान्तरद्योतित्वमाशङ्क्याह -

वाशब्द इति ।

तत्रान्यत्वाशङ्कां दर्शयति -

नन्विति ।

तद्व्यावृत्तिं विशदयति -

नेतीति ।

इतश्च न वास्तवमन्यत्वमित्याह -

तदिति ।

अनन्यत्वे फलितमाह -

अत इति ।

जीवस्य ज्ञानादितिरोभावेऽपि किं स्यात् , तत्राह -

अतश्चेति ।

साङ्कल्पिकत्वे दोषान्तरमाह -

यदि चेति ।

तत्र हेतुः -

नहीति ।

परोक्तमनूद्य निरस्यति -

यदिति ।

स्वप्नेऽपि जागरवदर्थेन्द्रियसत्त्वे दुर्विवेचनतया साध्यं स्वयञ्ज्योतिष्ट्वं न सिध्येदित्याह -

स्वयमिति ।

इतश्च न स्वप्नस्य सत्यत्वार्थमेव तद्वाक्यमित्याह -

श्रुत्येति ।

तर्हि केनाभिप्रायेणेदं साम्यमुक्तं, तत्राह -

जागरितेति ।

स्वप्नस्य जागरितेन तुल्यनिर्भासत्वाभिप्रायं साम्यवचनमिति शेषः ।

स्वप्नस्य सत्यत्वसाधकाभावे मिथ्यात्वसाधके च फलितमुपसंहरति -

तस्मादिति ॥ ६ ॥