ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ७ ॥
तत्र संशयः — किमेतानि नाड्यादीनि परस्परनिरपेक्षाणि भिन्नानि सुषुप्तिस्थानानि, आहोस्वित्परस्परापेक्षया एकं सुषुप्तिस्थानमिति । किं तावत्प्राप्तम् ? भिन्नानीति । कुतः ? एकार्थत्वात् — न हि एकार्थानां क्वचित्परस्परापेक्षत्वं दृश्यते व्रीहियवादीनाम् । नाड्यादीनां च एकार्थता सुषुप्तौ दृश्यते, ‘नाडीषु सृप्तो भवति’ (छा. उ. ८ । ६ । ३) ‘पुरीतति शेते’ (बृ. उ. २ । १ । १९) इति च तत्र तत्र सप्तमीनिर्देशस्य तुल्यत्वात् । ननु नैवं सति सप्तमीनिर्देशो दृश्यते — ‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) इति । नैष दोषः, तत्रापि सप्तम्यर्थस्य गम्यमानत्वात् — वाक्यशेषो हि तत्र आयतनैषी जीवः सत् उपसर्पतीत्याह — ‘अन्यत्रायतनमलब्ध्वा प्राणमेवाश्रयते’ (छा. उ. ६ । ८ । २) इति; प्राणशब्देन तत्र प्रकृतस्य सत उपादानात् । आयतनं च सप्तम्यर्थः, सप्तमीनिर्देशोऽपि तत्र वाक्यशेषे दृश्यते — ‘सति सम्पद्य न विदुः सति सम्पद्यामहे’ (छा. उ. ६ । ९ । २) इति । सर्वत्र च विशेषविज्ञानोपरमलक्षणं सुषुप्तं न विशिष्यते । तस्मादेकार्थत्वात् नाड्यादीनां विकल्पेन कदाचित् किञ्चित्स्थानं स्वापायोपसर्पति — इति ॥

नाडीपुरीतद्ब्रह्मसु सप्तमीश्रुतेः समुच्चयोक्तेश्च संशयमाह -

तत्रेति ।

अत्र स्वापनिरूपणद्वारा ब्रह्माभिन्नत्वमर्थसिद्धेर्वाक्यार्थधीसम्भवात्पादादिसङ्गतिः । पूर्वपक्षे स्थानविकल्पाज्जीवस्य ब्रह्मैक्यानियमः ।

सिद्धान्ते नाडीपुरीतद्द्वारा ब्रह्मस्थानत्वनियमाज्जीवस्य ब्रह्मात्मत्वनियतिरित्यभिसन्धाय विमृश्य पूर्वपक्षयति -

किमिति ।

नाडीपुरीतद्ब्रह्मणां विकल्पे प्रश्नपूर्वकं हेतुमाह -

कुत इति ।

एकार्थत्वेऽपि समुच्चये का क्षतिः, तत्राह -

नहीति ।

एकार्थत्वमेव नाड्यादिषु कथं, तत्राह -

नाड्यादीनां चेति ।

एकार्थता निरपेक्षस्वापाधारतेति यावत् ।

अस्मिन्प्राण एवैकधा भवतीत्यपि वाक्ये सप्तम्या चेदाधारत्वं तर्हि सतस्तृतीयोक्तेर्नाधारतेति शङ्कते -

नन्विति ।

सप्तम्यभावेऽपि तदर्थसिद्धेराधारत्वं सतोऽपि स्यादित्याह -

नैष इति ।

तत्रापि सत्यपि नाड्यादाविवेत्यर्थः ।

तस्य गम्यमानत्वमेव दर्शयति -

वाक्येति ।

तत्र सता सोम्येत्यादाविति यावत् ।

प्राणस्यायतनत्वेऽपि किं सतः स्यात् , तत्राह -

प्राणेति ।

तथापि कथं सप्तम्यर्थस्य गम्यमानत्वं, तत्राह -

आयतनं चेति ।

सति सप्तमीनिर्देशस्यासत्त्वमुपेत्योक्तं तदपि नास्तीत्याह -

सप्तमीति ।

विशेषज्ञानोपरमलक्षणस्वापस्य नाडीपुरीततोरयोगात्तयोर्न सुप्तिस्थानतेत्याशङ्क्य शास्त्रप्रामाण्यमाश्रित्याह -

सर्वत्रेति ।

न च जीवाधारत्वं नाड्यादेरयुक्तं बुद्ध्युपाधिकजीवाधारत्वाविरोधात् । नच विकल्पेऽन्यतरबाधाद्युक्तः समुच्चयस्तत्रापि प्रत्येकं सप्तमीश्रुतिसिद्धनिरपेक्षाधारत्वस्यात्यन्तबाधात् ।

ताभिः प्रत्यवसृप्येत्यादौ तु कदाचिन्नाड्य एव कदाचित्ताभिः सञ्चरमाणस्य पुरीतदेव कदाचित्ताभिरेव सञ्चरतो ब्रह्मैवाधार इति युक्तमन्यथा निरपेक्षाधारत्वश्रुतिविरोधादिति मत्वोपसंहरति -

तस्मादिति ।

विकल्पे जीवस्य ब्रह्मैक्यमनियतमिति फलितं वक्तुमितिशब्दः ।