पूर्वपक्षमनूद्य सिद्धान्तमाह -
एवमिति ।
प्रतिज्ञां विभजते -
तदित्यादिना ।
चकारेण पुरीतदुक्तिं गृहीत्वाह -
समुच्चयेनेति ।
समुच्चये सिद्धान्ते प्रश्नपूर्वकं हेतुमुक्त्वा व्याचष्टे -
कुतइत्यादिना ।
नाड्यादीनां सुप्तिस्थानत्वश्रुतिर्विकल्पेऽपि स्यादित्याशङ्क्याह -
विकल्पे हीति ।
तेषामन्यतमस्य सुप्तिस्थानत्वे नान्यतमस्य तदिति पक्षे बाधः स चायुक्तो बाधस्यागतिकगतित्वादित्यर्थः ।
परोक्तं विकल्पहेतुमनुवदति -
नन्विति ।
दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमाह -
नेतीति ।
प्रकृतदर्शादिसाधनीभूतपुरोडाशप्रकृतितया व्रीहियवौ श्रुतौ, समर्थौ च निरपेक्षतया पुरोडाशं कर्तुं तयोर्मिथोपेक्षायामनपेक्षसाधनत्वार्थकश्रुतिबाधादनन्यगतित्वेन विकल्पाश्रयणम् । नाड्यादीनां तु न प्रत्येकं स्वापसाधने शक्तिरिति वक्ष्यते, नापि मानमिति भावः । यत्त्वेकार्थत्वं तत्किं मानान्तरसिद्धं किंवा सप्तमीसिद्धम् । नाद्यः । तदनुपलम्भात् ।
न द्वितीय इत्याह -
नहीति ।
प्रासादस्य पर्यङ्कधारणार्थत्वं पर्यङ्कस्य शयनार्थतेति नानार्थत्वेऽप्येकविभक्तिनिर्देशः । व्यवधानाव्यवधानाभ्यां च शयनसाधनत्वसमुच्चयः ।
तद्वदमूषु श्रुतिष्वपि नाड्यादिषु सप्तमीसमुच्चयश्चेत्याह -
तथेति ।
अनेकश्रुतिसामर्थ्यालोचनया समुच्चयमुक्त्वा तत्रैव श्रुतिमाह -
तथाचेति ।
उक्तश्रुतेस्तात्पर्यमाह -
समुच्चयमिति ।
तत्र हेतुः -
एकेति ।
नाडीनां प्राणस्य चैकेन वाक्येनोपादानान्मिथः समुच्चय इत्यर्थः ।
प्राणस्य नाडीसमुच्चयेऽपि ब्रह्मणस्ताभिः समुच्चये किं जातं, तत्राह -
प्राणस्येति ।
समुच्चये श्रुत्यन्तरं नैरपेक्ष्यद्योति विरुध्येतेत्याशङ्क्याह -
यत्रेति ।
नाडीनां द्वारत्वे कथमधिकरणश्रुतिः, तत्राह -
नचेति ।
नाड्यादौ सप्तम्याः सामीप्यमर्थमादाय ब्रह्मण्यधिकरणार्थत्वेऽपि न तद्विरोधोऽस्तीत्यर्थः ।
विरोधाभावं साधयति -
नाडीभिरिति ।
तदेव दृष्टान्तेन स्पष्टयति -
यो हीति ।
इतश्च ब्रह्मैवैकं स्वापाधिकरणमित्याह -
अपिचेति ।
तर्हि नाडीषु सुप्तिसङ्कीर्तनमनर्थकमित्याशङ्क्य हेत्वन्तरमेव स्फोरयति -
अत्रेति ।
नाडीप्रकरणं सप्तम्यर्थः ।
मार्गोपदेशायोक्तानां नाडीनां स्तुत्यर्थं सुप्तिकीर्तनमित्यत्र गमकमाह -
नाडीष्विति ।
तासु सुप्तस्य पाप्मास्पर्शे को हेतुः, तत्राह -
ब्रवीतीति ।
हेतुं विभजते -
तेजसेति ।
विषयदर्शनाभावे तदुत्थसुखाद्यभावात्तद्धेतुधर्माद्यनुमानायोगात्पाप्मभिरस्पर्श इति शेषः ।
हेतुवाक्यं विधान्तरेण व्याकरोति -
अथवेति ।
ब्रह्मसम्पत्तावपि कथं पापास्पर्शः, तत्राह -
ब्रह्मेति ।
कतरद्व्याख्यानमादेयं द्वितीयमित्याह -
एवं चेति ।
नाडीनां ब्रह्मप्राप्तिद्वारत्वे सतीति यावत् ।
नाडीद्वारा ब्रह्मणः स्वापस्थानत्वे क्वचित्ताभिः प्रत्यवसृप्य पुरीतति शेत इति पुरीतदुक्तिर्वृथेत्याशङ्क्य पुरीतद्ब्रह्मणोरपि समुच्चयमुक्त्वा नाडीपुरीततोः समुच्चयमाह -
तथेति ।
उक्तमेव विवृणोति -
य इति ।
आकाशे शेते, चेत्पुरीतति कथं शेते, तत्राह -
तदिति ।
तदेव दृष्टान्तेन स्पष्टयति -
प्राकारेति ।
पुरीतदाकाशसमुच्चयेऽपि कथं पुरीतद्ब्रह्मणोः समुच्चयः, तत्राह -
हृदयेति ।
नाडीब्रह्मणोरिव पुरीतद्ब्रह्मणोरपि समुच्चयमुक्त्वा नाडीपुरीततोः समुच्चयमाह -
तथेति ।
सत्प्राज्ञयोरपि सुप्तिस्थानत्वोक्तेस्त्रयाणामेव कथं समुच्चयोक्तिरित्याशङ्क्याह -
सदिति ।
समुच्चयपक्षमुपसंहरति -
एवमिति ।
तेष्ववान्तरविभागमाह -
तत्रेति ।
नाडीपुरीततोर्द्वारत्वे हेत्वन्तरमाह -
अपिचेति ।
तयोरुपाध्याधारत्वमपि कथं, तत्राह -
तत्रेति ।
नाडीषु पुरीतति च जीवस्योपाध्यन्तर्भूतानि करणानि कर्माणि तिष्ठन्तीत्युपाध्याधारत्वं तयोरुक्तम् । जीवस्य त्वाधारो ब्रह्मैवेत्यर्थः ।
किमिति तयोः साक्षादेव जीवाधारत्वं नेष्टं, तत्राह -
नहीति ।
तर्हि ब्रह्मणोऽपि कुतो जीवाधारत्वमैक्यादित्याशङ्क्याह -
ब्रह्मेति ।
तादात्म्याभिप्रायेण स्वापे जीवस्य ब्रह्माधारत्वोक्तिरित्यत्र लिङ्गमाह -
यत इति ।
स्वशब्दस्य स्वकीयार्थत्वान्न तादात्म्यमत्र भातीत्याशङ्क्य पदार्थोक्त्या वाक्यार्थमाह -
स्वेति ।
जीवस्य ब्रह्मैक्यमेव नाडीपुरीततोस्तु तदुपाध्याधारतया तदाधारतेत्यतुल्यार्थत्वान्न विकल्पोऽस्तीत्युक्तम् । इदानीं विकल्पायोगे हेत्वन्तरमाह -
अपिचेति ।
जीवस्य चेदौत्सर्गिकं ब्रह्मत्वं तर्हि किमिति स्वापे तस्य तद्रूपत्वमुच्यते, तत्राह -
स्वप्नेति ।
सुषुप्तेरपवादाभावाज्जीवस्य ब्रह्मतादात्म्ये फलितमाह -
अतश्चेति ।
इतश्च विकल्पासिद्धिरित्याह -
अपिचेति ।
हेत्वन्तरमेव स्फोरयन्विकल्पवादिनोऽपि संमतमर्थमाह -
स्थानेति ।
क्वचिदिति नाडीपुरीतद्ब्रह्मणामन्यतमोक्तिः । अन्यथा सुप्तिभङ्गो जागरादिवदिति भावः ।
स्वापस्यैवंरूपत्वेऽपि विकल्पे कानुपपत्तिः, तत्राह -
तत्रेति ।
एकत्वमद्वैतावस्थात्वम् ।
सति सम्पन्नस्य विशेषज्ञानाभावे मानमाह -
तदिति ।
अवशिष्टेऽपि स्थानद्वये यथोक्तं सुषुप्तं युक्तमेवेत्याशङ्क्याह -
नाडीष्विति ।
नाड्यादिगोचरस्य पुंसो द्वैतावस्थत्वाद्विशेषाज्ञाने नास्ति हेतुरित्यर्थः ।
द्वैतावस्थस्य विशेषज्ञाननियमे मानमाह -
यत्रेति ।
तस्यापि विशेषाज्ञाने हेतुं शङ्कते -
नन्विति ।
भिद्यत इति भेदो भिद्यमानस्य विषयस्यापीत्यर्थः । जीवस्यातिदूरत्वं स्वाभाविकमौपाधिकं वा ।
तत्राद्यं दूषयति -
बाढमिति ।
स्वाभाविकमपि दूरत्वमज्ञाने हेतुरित्यत्र दृष्टान्तमाह -
यथेति ।
अस्तु प्रस्तुतेऽपि तादृगतिदूरत्वमज्ञानहेतुर्नेत्याह -
न त्विति ।
द्वितीयमनुवदति -
उपाधीति ।
तर्हि विकल्पासिद्धिरित्याह -
तथापीति ।
सुप्तिदशायामुपाधिपरिच्छेदाङ्गीकारे च कतिपयसंनिहितार्थज्ञानप्रसङ्गादशेषविशेषज्ञानशून्यतायै निरूपाधितया जीवस्य ब्रह्मरूपेणावस्थानमास्थेयमित्यर्थः ।
उपाधीनामुपशमे कथं नाड्यादिसमुच्चयोक्तिः, तत्राह -
नचेति ।
इहेति स्वापस्थानमुक्तम् । गुणप्रधानत्वेन समुच्चयोक्तिरित्यर्थः ।
किञ्च नाड्यादीनां स्वापस्थानत्वोक्तेरफलत्वान्न समुच्चयो विकल्पो वेत्याह -
नहीति ।
कथमस्याफलत्वमित्याशङ्क्य स्वातन्त्र्येण वा फलवदङ्गत्वेन वा फलवत्त्वमिति विकल्प्याद्यं प्रत्याह -
नहीति ।
द्वितीयं दूषयति -
नापीति ।
विकल्पसमुच्चययोरप्रतिपाद्यत्वे किमत्र प्रतिपाद्यं, तदाह -
ब्रह्म त्विति ।
तद्विज्ञानेऽपि तुल्यमफलत्वमित्याशङ्क्याधिकरणत्वज्ञानस्य प्रयोजनमाह -
तेनेति ।
ब्रह्म स्वापस्थानमिति ज्ञानस्य फलवत्त्वे फलितमाह -
तस्मादिति ॥ ७ ॥