अतः प्रबोधोऽस्मादिति स्वापानन्तरं ब्रह्मणः सकाशात्प्रबोधोक्तेस्तदात्मनैव सुप्तस्तिष्ठतीत्युक्तम् । इदानीं तस्मात्प्रबोधस्तदापत्तिं गमयति सुप्तादन्यस्य प्रबोधसम्भवेन तस्य नाड्यादिस्थानत्वसम्भवादित्याशङ्क्याह -
स एवेति ।
स्वापस्थानाद्ब्रह्मणः प्रतिबुध्यमानं जीवमधिकृत्योपाधिनाशात्कर्मानुस्मृत्यादिदर्शनाच्च संशयमाह -
तस्या इति ।
तस्यैवोत्थानोक्त्या स्वापातिरेकसाधनेन त्वमर्थशोधनात्तस्य ब्रह्मैक्ययोग्यतया वाक्यीयज्ञानोपयोगितेति पादादिसङ्गतिः ।
पूर्वपक्षे ज्ञानवैयर्थ्यं सिद्धान्ते तस्यैवोत्थानादज्ञातब्रह्मात्मना सुप्तस्यावस्थानात्तदैक्यज्ञानादेव मुक्तेस्तदर्थवत्त्वनियतिरित्यभिप्रेत्य नियामकानुपलब्ध्या पूर्वपक्षयति -
तत्रेति ।
नियमसम्भवे नानियमो युक्तिमानिति शङ्कते -
कुत इति ।
नियमायोगं दृष्टान्तेन साधयति -
यदेति ।
जलबिन्दोः सावयवत्वादवयवप्रसर्पणप्रणाडिकयैकत्वमापन्नस्य तस्यैव नोद्धरणम् । जीवस्य तु सोपाधित्वादुपाधेर्यावद्बन्धभावित्वादुद्धारसिद्धिरित्याशङ्क्योपाधिलयाभावे सत्सम्पत्त्यसिद्धेर्मैवमिति मत्वा दार्ष्टान्तिकमाह -
तद्वदिति ।
नियामकायोगे फलितमाह -
तस्मादिति ।
सम्भावनामात्रेणेश्वरो वेत्युक्तम् । अनियमपक्षे मोक्षः सुप्तस्येति ज्ञानवैयर्थ्यमिति वक्तुमितिशब्दः ।
पूर्वपक्षमनूद्य सिद्धान्तप्रतिज्ञामाह -
एवमिति ।
ऐक्यावस्थायामवच्छेदाभावे तस्यैवोत्थानं नियन्तुमशक्यमिति शङ्कते -
कस्मादिति ।
अवच्छेदकाविद्याशक्तिं सिद्धवत्कृत्य तस्यैवोत्थाने मानमाह -
कर्मेति ।
षड्यागानामिव समुच्चितानामिह न हेतुत्वं किन्तु प्रत्येकमित्याह -
विभज्येति ।
तत्र कर्मशब्दोक्तं हेतुं विशदयति -
कर्मेति ।
शेषानुष्ठानदर्शनमेव प्रकटयति -
तथाहीति ।
कथमेतावता तस्यैवोत्थानमित्याशङ्क्योक्तम् -
नचेति ।
सामिकृतस्यार्धमनुष्ठितस्येति यावत् ।
एकस्यैव ज्योतिष्टोमादेरनेकयजमानकत्वापातादित्याह -
अतिप्रसङ्गादिति ।
उक्तहेतुफलमुपसंहरति -
तस्मादिति ।
अतः स एवोत्तिष्ठतीति शेषः ।
अनुस्मृतिं व्याकरोति -
इतश्चेति ।
का पुनरुक्तानुस्मृतेरन्योत्थानेऽनुपपत्तिः, तत्राह -
नहीति ।
अनुस्मृतिरित्यत्रानुशब्देन प्रत्यभिज्ञापि सूचितेत्याह -
सोऽहमिति ।
शब्दशब्दार्थमाह -
शब्देभ्यश्चेति ।
अयनं गमनमायः प्रतिनियतं गमनं प्रतिन्यायः स यथा भवति तथा योनिं योनिं प्रत्यागच्छति स्वापानन्तरं जागरायेत्यर्थः । सुप्तानामुत्थानयोग्यत्वमापन्नमेतं न विन्दन्तीति सूचितम् । इहेति पूर्वप्रबोधोक्तिः । तदाभवन्तीति स्वापव्यवहितं जागरितमुच्यते ।
विधिपदं व्याचष्टे -
कर्मेति ।
स एवोत्तिष्ठतीत्येतदेवमेवेत्युक्तम् । तदेव व्यतिरेकमुखेन विशदयति -
अन्यथेति ।
विद्यानर्थक्यं व्यनक्ति -
अन्येति ।
कर्मवैयर्थ्यमाह -
एवं चेदिति ।
सुप्तमात्रस्य मुक्त्युपगमश्चेदित्यर्थः । अनुष्ठानकाले फलाभावात्कर्मणो ध्यानस्य च कालान्तरफलस्यान्योत्थानपक्षे वैयर्थ्यमित्यर्थः । विद्यात्र ध्यानम् ।
इतश्च नान्योत्थानमित्याह -
अपिचेति ।
अन्योत्थाने सोऽन्यो जीवो वा स्यादीश्वरो वा, जीवश्चेद्बद्धो मुक्तो वा, बद्धोऽपि देहान्तरे व्यवहरमाणस्तत्र सुप्तो वेति विकल्प्याद्यमनूद्य प्रत्याह -
अन्येति ।
द्वितीयमनुभाष्य दूषयति -
अथेत्यादिना ।
विफलं गौरवमेव स्फोरयति -
यो हीति ।
कल्पान्तरमनूद्य निरस्यति -
अथेति ।
अन्तवत्त्वे का क्षतिः, तत्राह -
निवृत्तेति ।
हेत्वभावादिति भावः । मुक्तस्य नोत्थानमित्युक्तन्यायेन कल्पान्तरं निराह -
एतेनेति ।
तदीयस्वरूपापेक्षया हेतुमाह -
नित्येति ।
प्रत्येकं सर्वपक्षेषु दोषमुक्त्वा साधारणं दोषमाह -
अकृतेति ।
अन्योत्थाने पाश्चात्यप्रबोधकालीनसुखादेर्न पूर्वकर्मकार्यतेत्यकृतमागच्छेत्कृतं च सुप्तस्य मुक्तौ फलमदत्त्वैव नश्येदिति दोषद्वयमित्यर्थः ।
अन्योत्थानायोगे फलितमाह -
तस्मादिति ।
पूर्वपक्षबीजमनुवदति -
यदिति ।
दृष्टान्तवैषम्योक्त्या प्रत्याह -
तदित्यादिना ।
नास्माभिरेवान्यैरपि दुर्विवेचनत्वं तुल्यमित्याशङ्क्याह -
दृश्यते चेति ।
प्रकारान्तरेण दृष्टान्तवैषमाह -
अपिचेति ।
कस्तर्हि जीवः, तत्राह -
सदेवेति ।
सत एवोपाधिना जीवत्वे नानाजीववादोऽपि प्रत्युक्त इत्याह -
एवमिति ।
उक्तमेव व्यतिरेकद्वारोपपादयति -
उपाध्यन्तरेति ।
उपाधिभेदमुपेत्य तत्र तत्र जीवभेदो गम्यतामित्याशङ्क्य बीजाङ्कुरवद्व्यक्ताव्यक्तात्मनैकस्यैवोपाधेः स्थितेर्मैवमित्याह -
स एवेति ।
सुप्तस्यैवोत्थानादज्ञातब्रह्मणा तदवस्थानं सिद्धमित्युपसंहरति -
इत्यत इति ॥ ९ ॥