ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥
एवं प्राप्ते, ब्रूमः — न तावन्मुग्धो जागरितावस्थो भवितुमर्हति । न ह्ययमिन्द्रियैर्विषयानीक्षते । स्यादेतत् — इषुकारन्यायेन मुग्धो भविष्यति — यथा इषुकारो जाग्रदपि इष्वासक्तमनस्तया नान्यान्विषयानीक्षते, एवं मुग्धो मुसलसम्पातादिजनितदुःखानुभवव्यग्रमनस्तया जाग्रदपि नान्यान्विषयानीक्षत इति; न, अचेतयमानत्वात् । इषुकारो हि व्यापृतमना ब्रवीति — इषुमेवाहमेतावन्तं कालमुपलभमानोऽभूवमिति, मुग्धस्तु लब्धसंज्ञो ब्रवीति — अन्धे तमस्यहमेतावन्तं कालं प्रक्षिप्तोऽभूवम् , न किञ्चिन्मया चेतितमिति । जाग्रतश्चैकविषयविषक्तचेतसोऽपि देहो विध्रियते । मुग्धस्य तु देहो धरण्यां पतति । तस्मात् न जागर्ति । नापि स्वप्नान्पश्यति, निःसंज्ञत्वात् । नापि मृतः, प्राणोष्मणोर्भावात् — मुग्धे हि जन्तौ मृतोऽयं स्यान्न वा मृत इति संशयानाः, ऊष्मास्ति नास्तीति हृदयदेशमालभन्ते निश्चयार्थम् , प्राणोऽस्ति नास्तीति च नासिकादेशम् । यदि प्राणोष्मणोरस्तित्वं नावगच्छन्ति, ततो मृतोऽयमित्यध्यवसाय दहनायारण्यं नयन्ति । अथ तु प्राणमूष्माणं वा प्रतिपद्यन्ते, ततो नायं मृत इत्यध्यवसाय संज्ञालाभाय भिषज्यन्ति । पुनरुत्थानाच्च न दिष्टं गतः । न हि यमराष्ट्रात्प्रत्यागच्छति । अस्तु तर्हि सुषुप्तः, निःसंज्ञत्वात् , अमृतत्वाच्च; न, वैलक्षण्यात् — मुग्धः कदाचिच्चिरमपि नोच्छ्वसिति, सवेपथुरस्य देहो भवति, भयानकं च वदनम् , विस्फारिते नेत्रे । सुषुप्तस्तु प्रसन्नवदनस्तुल्यकालं पुनः पुनरुच्छ्वसिति, निमीलिते अस्य नेत्रे भवतः, न चास्य देहो वेपते । पाणिपेषणमात्रेण च सुषुप्तमुत्थापयन्ति, न तु मुग्धं मुद्गरघातेनापि । निमित्तभेदश्च भवति मोहस्वापयोः — मुसलसम्पातादिनिमित्तत्वान्मोहस्य, श्रमादिनिमित्तत्वाच्च स्वापस्य । न च लोकेऽस्ति प्रसिद्धिः — मुग्धः सुप्तः इति । परिशेषादर्धसम्पत्तिर्मुग्धतेत्यवगच्छामः — निःसंज्ञत्वात् सम्पन्नः, इतरस्माच्च वैलक्षण्यादसम्पन्नः इति ॥

पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।

परिशेषादित्यस्यार्थं परिशेषं दर्शयितुमारभते -

न तावदिति ।

जाग्रदवस्थो हीन्द्रियैरर्थानुपलभते मुग्धो नैवमिति वैषम्यं हेतुमाह -

नहीति ।

जाग्रदवस्थस्यैव मुग्धस्यार्थानुपलम्भो दुःखानुभवव्यग्रतया स्यादिति दृष्टान्तेन शङ्कते -

स्यादिति ।

इषुकारन्यायं प्रपञ्चयति -

यथेत्यादिना ।

वैषम्योक्त्या प्रत्याह -

नेत्यादिना ।

मुग्धस्य जागरितावस्थत्वाभावे हेत्वन्तरमाह -

जाग्रतश्चेति ।

देहधारणाभावाद्विषयमात्रानुपलब्धेश्च मुग्धो जाग्रदवस्थो नेति निगमयति -

तस्मादिति ।

अस्तु तर्हि तस्य स्वप्नावस्थत्वं, नेत्याह -

नापीति ।

तर्हि तस्य मृतावस्थत्वं नेत्याह -

नापीति ।

पूर्ववत्प्राणोष्माणौ मुग्धे न सिद्धौ तत्कुतोऽस्य मृतादान्यत्वं तत्राह -

मुग्धे हीति ।

ऊष्मास्ति नेति संशय्यान्यरनिश्चयार्थं हृदयदेशमालभन्ते स्पृशन्तीति यावत् ।

प्राणोऽस्ति नेति च सन्दिह्यान्यतरार्थं नासिकादेशमालभन्त इति सम्बन्धः । नास्तित्वनिश्चयफलमाह -

यदीति ।

परस्य पराध्यवसायो गोचरो नेत्याशङ्क्य कार्यलिङ्गकमनुमानमाह -

दहनायेति ।

अस्तित्वनिश्चयफलमाह -

अथ त्विति ।

तत्रापि कार्यलिङ्गकमनुमानमाह -

संज्ञेति ।

मुग्धस्य मृतत्वाभावे हेत्वन्तरमाह -

पुनरिति ।

यमराजं प्रविष्टस्यापि पुनरुत्थानं किं न स्यात् , तत्राह -

नहीति ।

परिशेषसिद्धं मुग्धस्य स्वापावस्थत्वमित्याह -

अस्त्विति ।

तत्र सालक्षण्यं हेतुमाह -

निःसंज्ञत्वादिति ।

उक्तसालक्षण्येऽपि लक्षणनिमित्तफलानां भेदान्नैक्यमित्याह -

नेत्यादिना ।

लक्षणं लक्षणभेदं विवृणोति -

मुग्ध इति ।

निमित्तभेदमुदाहरति -

निमित्तेति ।

आदिपदेनोभयत्रापि ज्वरादि गृह्यते श्रमापनयार्था ब्रह्मसम्पत्तिः सुषुप्तिः, देहत्यागार्था तत्सम्पत्तिर्मोहः, सति मोहे मरणाभावेऽपि तस्मिन्नसति तदभावादिति फलभेदं मत्वा मोहस्वापयोरैक्ये मानाभावमाह -

नचेति ।

परिशेषायातमर्थमाह -

परीति ।

साम्यवैलक्षण्याभ्यामर्धसम्पत्तिं साधयति -

निःसंज्ञत्वादिति ।