ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥
कथं पुनरर्धसम्पत्तिर्मुग्धतेति शक्यते वक्तुम् ? यावता सुषुप्तं प्रति तावदुक्तं श्रुत्या — ‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) इति, ‘अत्र स्तेनोऽस्तेनो भवति’ (बृ. उ. ४ । ३ । २२) ‘नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम्’ (छा. उ. ८ । ४ । १) इत्यादि । जीवे हि सुकृतदुष्कृतयोः प्राप्तिः सुखित्वदुःखित्वप्रत्ययोत्पादनेन भवति । न च सुखित्वप्रत्ययो दुःखित्वप्रत्ययो वा सुषुप्ते विद्यते । मुग्धेऽपि तौ प्रत्ययौ नैव विद्येते । तस्मात् उपाध्युपशमात् सुषुप्तवन्मुग्धेऽपि कृत्स्नसम्पत्तिरेव भवितुमर्हति, नार्धसम्पत्तिरिति । अत्रोच्यते — न ब्रूमः — मुग्धेऽर्धसम्पत्तिर्जीवस्य ब्रह्मणा भवतीति । किं तर्हि ? अर्धेन सुषुप्तपक्षस्य भवति मुग्धत्वम् , अर्धेनावस्थान्तरपक्षस्य — इति ब्रूमः । दर्शिते च मोहस्य स्वापेन साम्यवैषम्ये । द्वारं चैतत् मरणस्य । यदास्य सावशेषं कर्म भवति, तदा वाङ्मनसे प्रत्यागच्छतः । यदा तु निरवशेषं कर्म भवति, तदा प्राणोष्माणावपगच्छतः । तस्मादर्धसम्पत्तिं ब्रह्मविद इच्छन्ति । यत्तूक्तम् — न पञ्चमी काचिदवस्था प्रसिद्धास्तीति, नैष दोषः; कादाचित्कीयमवस्थेति न प्रसिद्धा स्यात् । प्रसिद्धा चैषा लोकायुर्वेदयोः । अर्धसम्पत्त्यभ्युपगमाच्च न पञ्चमी गण्यत इत्यनवद्यम् ॥ १० ॥

अर्धसम्पत्तिमाक्षिपति -

कथमिति ।

कानुपपत्तिरित्याशङ्क्य मुग्धस्यार्धसम्पत्त्यभावं साधयितुं सुप्तेन साम्यं कर्मतत्फललेशाभावेन कथयति -

यावतेति ।

यत्सुप्तं प्रति सत्सम्पन्नत्वं श्रुतं तदुपाध्युपरमाभिप्रायं स चोपाध्युपरमो मुग्धस्यापीति कृत्स्नसम्पत्तिरेवेति भावः ।

कर्मसम्बन्धस्य यावद्बन्धभावित्वात्सुप्तस्य कर्मराहित्यमसिद्धमित्याशङ्क्य तत्कार्यसुखदुःखधीराहित्यात्तद्धेतुकर्मराहित्यं कल्प्यमित्याह -

जीवे हीति ।

सुप्तस्य सुखानुभवात्तदविनाभूतो दुःखानुभवोऽपि कल्प्यतामित्याशङ्क्य स्वप्रकाशस्वरूपसुखानुभवव्यतिरेकेण कर्मोत्थानुकूलप्रतिकूलार्थधीजन्यौ प्रत्ययावसम्भाविनावित्याह -

नचेति ।

सुप्तस्य कर्मफलवैकल्येऽपि मुग्धस्य किं सिद्धं, तत्राह -

मुग्धेऽपीति ।

सुखादिधीराहित्यकल्पितकर्मराहित्येन सम्पूर्णा सत्सम्पत्तिर्मुग्धेऽपीति निगमयति -

तस्मादिति ।

ब्रह्मसम्पत्त्यविशेषेऽपि सुप्तिमूर्च्छयोर्भेदोऽस्तीत्याह -

अत्रेति ।

यत्तु मूर्च्छायां जीवस्य ब्रह्मणा नार्धसम्पत्तिरिति दर्शितं तदङ्गीकरोति -

नेत्यादिना ।

तर्हि किमपेक्षयार्धसम्पत्तिः, तत्राह -

किमिति ।

अर्धेनादीयमानेन निःसंज्ञत्वेनेति यावत् । परित्यज्यमानेन चार्धेन प्रसन्नवदनत्वादिनेत्यर्थः । अवस्थान्तरं मरणम् ।

उपनेयापनेयार्धाभ्यामुभयपक्षत्वं कथं मुग्धे सिद्धं, तत्राह -

दर्शिते चेति ।

तथापि कथमस्या मरणपक्षत्वं तत्राह -

द्वारं चेति ।

मुम्धत्वं मरणस्य द्वारं चेत्तस्मिन्सति स्यादेवेत्याशङ्क्याह -

यदेति ।

कर्मणः सावशेषत्वे गमकमाह -

तदेति ।

तर्हि कुतो द्वारत्वं मरणं प्रति मोहस्योक्तं, तत्राह -

यदा त्विति ।

कर्मणो निःशेषत्वे प्रयोजकमाह -

तदेति ।

साम्यवैषम्याभ्यां सिद्धमुपसंहरति -

तस्मादिति ।

अवस्थान्तरमप्रसिद्धत्वान्नेत्युक्तमनुवदति -

यत्त्विति ।

जीवद्दशायां सर्वजीवसाधारण्याभावादप्रसिद्धिर्न त्वभेदादित्याह -

नेत्यादिना ।

इदानीमप्रसिद्धिरपि नास्तीत्याह -

प्रसिद्धा चेति ।

आयुर्वेदो वैद्यशास्त्रम् । कथमन्यथा मुसलपातादिना मुग्धं बन्धुमुपलभ्य तदीयसंज्ञालाभार्थं तदीयपितृप्रभृतयश्चिकित्साशास्त्रकुशलमन्विष्यानुगच्छेयुरिति भावः ।

कस्मात्तर्हि पञ्चमतया मुग्धिर्न गण्यते, तत्राह -

अर्धेति ।

निःसंज्ञत्वमप्रसन्नवदनतेत्यादिना सुप्तिमरणान्तर्भावधिया पञ्चमतया मूर्च्छा नोक्तेत्यर्थः ।

उक्तवैषम्यादनन्तर्भावधिया पृथगुक्तिरपि स्यादित्याशङ्क्यानन्तर्भावेऽपि सर्वसाधारणत्वाभावान्मैवमिति मत्वा त्वमर्थशोधनमुपसंहरति -

इत्यनवद्यमिति ॥ १० ॥