ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अपि चैवमेके ॥ १३ ॥
अपि चैवं भेददर्शननिन्दापूर्वकम् अभेददर्शनमेव एके शाखिनः समामनन्ति — ‘मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन ।’ (क. उ. २ । १ । ११) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (क. उ. २ । १ । १०) इति । तथान्येऽपि — ‘भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म मे तत्’ (श्वे. उ. १ । १२) इति समस्तस्य भोग्यभोक्तृनियन्तृलक्षणस्य प्रपञ्चस्य ब्रह्मैकस्वभावतामधीयते ॥ १३ ॥

भेददर्शननिन्दया भेदोक्तेरपि न तात्त्विको भेदः शास्त्रीयोऽस्तीत्याह -

अपिचेति ।

सूत्रं व्याकरोति -

अपिचेत्यादिना ।

भोक्ता जीवो भोग्यं शब्दादि तदुभयं प्रेर्यं प्रेरितारं च नियन्तारमीश्वरं मत्वा विचार्य तत्सर्वं त्रिविधं मे मम प्रोक्तं ब्रह्मैवेति जानीयादित्यर्थः ।

उक्तवाक्यार्थमाह -

समस्तस्येति ॥ १३ ॥