ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अम्बुवदग्रहणात्तु न तथात्वम् ॥ १९ ॥
न जलसूर्यकादितुल्यत्वमिहोपपद्यते, तद्वदग्रहणात् । सूर्यादिभ्यो हि मूर्तेभ्यः पृथग्भूतं विप्रकृष्टदेशं मूर्तं जलं गृह्यते । तत्र युक्तः सूर्यादिप्रतिबिम्बोदयः । न तु आत्मा मूर्तः, न चास्मात्पृथग्भूता विप्रकृष्टदेशाश्चोपाधयः, सर्वगतत्वात् सर्वानन्यत्वाच्च । तस्मादयुक्तोऽयं दृष्टान्त इति ॥ १९ ॥

न तथात्वमिति व्याचष्टे -

नेत्यादिना ।

इहेत्यात्मोक्तिः । हेतुमवतार्य तद्वदग्रहणं दर्शयितुं दृष्टान्तस्वरूपमाह -

सूर्यादिभ्यो हीति ।

दार्ष्टान्तिके तद्वैषम्यमाह -

न त्विति ।

उपाधीनामात्मनो विप्रकृष्टदेशत्वाभावे हेतुमाह -

सर्वगतत्वादिति ।

तेषां तस्मात्पृथग्भूतत्वाभावे हेतुमाह -

सर्वेति ।

वैषम्यफलमाह -

तस्मादिति ॥ १९ ॥