ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ २७ ॥
तस्मिन्नेव संराध्यसंराधकभावे मतान्तरमुपन्यस्यति, स्वमतविशुद्धये । क्वचित् जीवप्राज्ञयोर्भेदो व्यपदिश्यते — ‘ततस्तु तं पश्यते निष्कलं ध्यायमानः’ (मु. उ. ३ । १ । ८) इति ध्यातृध्यातव्यत्वेन द्रष्टृद्रष्टव्यत्वेन च । ‘परात्परं पुरुषमुपैति दिव्यम्’ (मु. उ. ३ । २ । ८) इति गन्तृगन्तव्यत्वेन । ‘यः सर्वाणि भूतान्यन्तरो यमयति’ इति नियन्तृनियन्तव्यत्वेन च । क्वचित्तु तयोरेवाभेदो व्यपदिश्यते — ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) ‘एष त आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) ‘एष त आत्मान्तर्याम्यमृतः’ (बृ. उ. ३ । ७ । ३) इति । तत्रैवमुभयव्यपदेशे सति, यद्यभेद एव एकान्ततो गृह्येत, भेदव्यपदेशो निरालम्बन एव स्यात् । अत उभयव्यपदेशदर्शनात् अहिकुण्डलवदत्र तत्त्वं भवितुमर्हति — यथा अहिरित्यभेदः, कुण्डलाभोगप्रांशुत्वादीनीति च भेदः, एवमिहापीति ॥ २७ ॥

जीवब्रह्मणोरात्यन्तिकमैक्यमुक्त्वा भेदाभेदवादमुत्थापयति -

उभयेति ।

सूत्रद्वयस्य सङ्गतिमाह -

तस्मिन्निति ।

तदुपन्यासफलमाह -

स्वमतेति ।

अस्तु तर्हि भेदव्यपदेशात्तयोर्भिन्नत्वमेव, तत्राह -

क्वचिदिति ।

अन्यतरव्यपदेशात्तदन्यस्य त्याज्यतामाशङ्क्याह -

तत्रेति ।

भेदो नियतो गृह्यते चेदभेदोक्तिरनालम्बना स्यादिति द्रष्टव्यम् ।

अन्यतरोक्तेरपि निरालम्बनत्वायोगे फलितमाह -

अत इति ।

अत्रेति ब्रह्मात्मोक्तिः ।

अहिकुण्डलवदित्युक्तं विवृणोति -

यथेति ॥ २७ ॥