स्वमतसम्भवे हेत्वन्तरमाह -
प्रतिषेधाच्चेति ।
चकारार्थमाह -
इतश्चेति ।
इतःशब्दार्थं विवृण्वन्नादौ चेतनभेदनिषेधमुदाहरति -
यदिति ।
अचेतनभेदनिषेधं दर्शयति -
अथेति ।
उक्तनिषेधद्वयात्मकशास्त्रतात्पर्यं सङ्गृह्णाति -
ब्रह्मेति ।
तदेवं निषेधवाक्यार्थालोचनया निष्प्रपञ्चं ब्रह्म वाक्यार्थान्वययोग्यं तत्पदलक्ष्यमिति ॥ ३० ॥