नेति नेतीति ब्रह्मातिरिक्तं सर्वं निषेध्यमित्युक्तं तदयुक्तं सेत्वादिव्यपदेशेभ्यो वस्त्वन्तरसत्त्वावगमात् । द्युभ्वाद्यधिकरणे सेतुव्यपदेशस्य प्रतिनीतत्वेऽपि भेदादिव्यपदेशानां गतिमजानन्नाशङ्कते -
परमिति ।
विषयोक्तिपूर्वकं सबीजं संशयमाह -
यदिति ।
सर्वश्रुतिविप्रतिपत्तिनिरासेनाद्वयं ब्रह्मैव वस्तु नान्यदिति स्थिते कथमयमारम्भः स्यादित्याशङ्क्याह -
कानिचिदिति ।
मन्दाशङ्कानिरासाय तत्पदलक्ष्यस्याद्वयत्वप्रपञ्चार्थोऽयमारम्भस्ततोऽस्य पादादिसङ्गतिसौलभ्यम् । पूर्वपक्षे सद्वितीयत्वाद्ब्रह्मणो द्वितीयनिषेधासिद्धिः । सिद्धान्ते तस्याद्वयत्वाद्द्वैतनिषेधोपपत्तिः ।