सूत्रं व्याचष्टे -
तुशब्देनेति ।
निरोधप्रकारमभिनयति -
नेति ।
तत्किं सादि किंवानादि । प्रथमं प्रत्याह -
प्रमाणेति ।
तदेव स्फुटयति -
नहीति ।
अभेदेऽपि मानादृष्टिस्तुल्येत्याशङ्क्य जन्मादिसूत्रमारभ्य तत्र तत्र सिद्धमर्थं स्मारयति -
सर्वस्येति ।
आरम्भणाधिकरणसिद्धमर्थं कथयति -
अनन्यत्वं चेति ।
द्वितीयं निराह -
नचेति ।
ब्रह्मातिरिक्तवस्त्वभावे श्रुतिवत्तदर्थापत्तिमाह -
एकेति ।
ब्रह्मणः सद्वितीयत्वे मानान्युक्तानीति शङ्कते -
नन्विति ।
तत्र सेतुव्यपदेशस्य द्वितीयवस्तुसाधकत्वं नास्तीत्याह -
नेतीति ।
स हि श्रुतितोऽर्थतो वा वस्त्वन्तरं साधयति, तत्राद्यं दूषयति -
सेत्विति ।
द्वितीयं शङ्कते -
तत्रेति ।
श्रौतार्थविरोधादार्थिकार्थो न युक्तो लिङ्गस्य श्रुतितो दुर्बलत्वादित्याह -
नचेति ।
इतश्च तस्य न वस्त्वन्तरसाधकत्वमित्याह -
अपिचेति ।
विवक्षितं सेतुसाम्यमुपेक्ष्य तद्व्याप्तमर्थान्तरं कल्पयतोऽतिप्रसक्तिः स्यादिति हेत्वन्तरमेव स्फुटयति -
सेत्विति ।
यावति स्वीकृते श्रुतिर्न विरुध्यते तावदेव स्वीकर्तव्यं तस्या निर्दोषत्वेन बलवत्तरत्वादित्याह -
नचेति ।
सेतुशब्दस्य तर्हि का गतिरित्याशङ्क्य सूत्रयोजनया दर्शयति -
सेतुसामान्यादिति ।
किं तत्प्रसिद्धेन सेतुना सामान्यमात्मनि सेतुशब्दप्रयोगे निमित्तं तदाह -
जगत इति ।
तस्य जगतो मर्यादास्तत्तन्नियतार्थक्रियासु व्यवस्थितत्वलक्षणास्तासां तदाश्रयस्य जगतश्चान्तर्यामितया यदात्मनो विधारकत्वं तत्तस्य सेतुसामान्यमित्यर्थः ।
तेनात्मनि सेतुशब्दप्रयोगे सति किं सिध्यति तदाह -
अत इति ।
यत्तु तरतिशब्दादात्मसेतोः सद्वितीयत्वं, तत्राह -
सेतुमिति ।
स्वस्यैव स्वातिक्रमायोगात्प्राप्नोत्यर्थस्तरतिरित्ययुक्तं प्राप्नोतेरपि स्वात्मन्ययोगात् ।
ब्रह्मविदाप्नोतीतिवदुपपत्तावपि नात्र तरतिस्तदर्थो वृद्धप्रयोगानुपलब्धेरित्याशङ्क्याह -
यथेति ॥ ३२ ॥