सेतुव्यपदेशवद्द्वितीयं हेतुं निरस्यति -
बुद्ध्यर्थ इति ।
व्यावर्त्यमनूद्य व्यावर्तकं सूत्रमादाय विभजते -
यदपीति ।
उन्मानव्यपदेशोऽपीत्यपिना सेतुव्यपदेशो दृष्टान्त्यते ।
उपासनार्थत्वमुन्मानव्यपदेशस्य विशदयति -
चतुष्पादिति ।
शुद्धं ब्रह्म हित्वा सोपाधिके किमिति तत्र बुद्धिः स्थिरीक्रियते, तत्राह -
नहीति ।
उत्तमबुद्धीनां झटित्यनौपाधिके ब्रह्मणि बुद्धिप्रवेशेऽपीतरेषां तदभावात्तेषामपि सङ्ग्रहार्थ सोपाधिके ब्रह्मणि स्थिरीक्रियते बुद्धिरिति फलितं वक्तुमितीत्युक्तम् । सूत्रभागमादाय वैदिकोदाहरणत्वेन व्याकरोति -
पादवदित्यादिना ।
वागादय इत्यादिशब्देन प्राणचक्षुःश्रोत्रमिति गृहीतम् । अग्न्यादय इत्यादिशब्देन वायुरादित्यो दिश इति त्रयमुक्तम् ।
इदानीं तमेव सूत्रावयवं लौकिकत्वेन योजयति -
अथवेति ।
पादविभागं विनापि व्यवहारबाहुल्यं स्यादित्याशङ्क्याह -
नहीति ।
उक्तदृष्टान्तेन मन्दमध्यमधियां ध्यानव्यवहाराय ब्रह्मण्युन्मानकल्पनेति दार्ष्टान्तिकमाह -
तद्वदिति ॥ ३३ ॥