ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
स्थानविशेषात्प्रकाशादिवत् ॥ ३४ ॥
इह सूत्रे द्वयोरपि सम्बन्धभेदव्यपदेशयोः परिहारोऽभिधीयते । यदप्युक्तम् — सम्बन्धव्यपदेशात् भेदव्यपदेशाच्च परमतः स्यादिति, तदप्यसत्; यत एकस्यापि स्थानविशेषापेक्षया एतौ व्यपदेशावुपपद्येते । सम्बन्धव्यपदेशे तावदयमर्थः — बुद्ध्याद्युपाधिस्थानविशेषयोगादुद्भूतस्य विशेषविज्ञानस्य उपाध्युपशमे य उपशमः, स परमात्मना सम्बन्धः — इत्युपाध्यपेक्षया उपचर्यते, न परिमितत्वापेक्षया । तथा भेदव्यपदेशोऽपि ब्रह्मण उपाधिभेदापेक्षयैव उपचर्यते, न स्वरूपभेदापेक्षया । प्रकाशादिवदिति उपमोपादानम् — यथा एकस्य प्रकाशस्य सौर्यस्य चान्द्रमसस्य वा उपाधियोगादुपजातविशेषस्य उपाध्युपशमात्सम्बन्धव्यपदेशो भवति, उपाधिभेदाच्च भेदव्यपदेशः । यथा वा सूचीपाशाकाशादिषूपाध्यपेक्षयैवैतौ सम्बन्धभेदव्यपदेशौ भवतः — तद्वत् ॥ ३४ ॥

अवशिष्टं हेतुद्वयं निराचष्टे -

स्थानेति ।

सूत्रतात्पर्यमाह -

इहेति ।

तमेव परिहारमुक्त्वानुवादद्वारा स्फोरयति -

यदपीति ।

तत्र सूत्रावयवं हेतुत्वेन योजयति -

यत इति ।

स्थानविशेषो बुद्धिः । आदित्यश्चक्षुरित्यादिः ।

द्वयोरपि परिहारं सङ्क्षिप्य विभज्य दर्शयन्नादौ सम्बन्धव्यपदेशं प्रत्याह -

सम्बन्धेति ।

भेदव्यपदेशेऽपि स्थानविशेषादिति पदं योजयति -

तथेति ।

व्यपदेशयोरौपाधिकत्वे प्रकाशदृष्टान्तं व्याचष्टे -

प्रकाशेत्यादिना ।

आदिशब्देनोक्तमुदाहरणान्तरमाह -

यथा वेति ।

एवमेकस्मिन्नपि ब्रह्मण्युपाध्यपेक्षावेतौ व्यपदेशावित्याह -

तद्वदिति ॥ ३४ ॥