ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
उपपत्तेश्च ॥ ३५ ॥
उपपद्यते च अत्र ईदृश एव सम्बन्धः, नान्यादृशः — ‘स्वमपीतो भवति’ (छा. उ. ६ । ८ । १) इति हि स्वरूपसम्बन्धमेनमामनन्ति; स्वरूपस्य च अनपायित्वात् न नरनगरन्यायेन सम्बन्धो घटते । उपाधिकृतस्वरूपतिरोभावात्तु ‘स्वमपीतो भवति’ (छा. उ. ६ । ८ । १) इत्युपपद्यते । तथा भेदोऽपि नान्यादृशः सम्भवति, बहुतरश्रुतिप्रसिद्धैकेश्वरत्वविरोधात् । तथा च श्रुतिरेकस्याप्याकाशस्य स्थानकृतं भेदव्यपदेशमुपपादयति — ‘योऽयं बहिर्धा पुरुषादाकाशः’ (छा. उ. ३ । १२ । ७) ‘योऽयमन्तः पुरुष आकाशः’ (छा. उ. ३ । १२ । ८) ‘योऽयमन्तर्हृदय आकाशः’ (छा. उ. ३ । १२ । ९) इति ॥ ३५ ॥

मुख्ये व्यपदेशद्वये सम्भवति कुतस्तदौपचारिकमुच्यते, तत्राह -

उपपत्तेश्चेति ।

तत्र सम्बन्धव्यपदेशे सूत्रं योजयति -

उपपद्यते चेति ।

अत्रेति ब्रह्मात्मनोरुक्तिः ।

अौपचारिकस्यैव सम्बन्धस्योपपत्तिमुपपादयति -

स्वमिति ।

मुख्यसम्बन्धासम्भवं साधयति -

स्वरूपस्येति ।

सम्बन्धस्य द्विनिष्ठत्वादेकस्मिन्नयोगमाशङ्क्याह -

उपाधीति ।

इदानीमौपचारिकं भेदमादाय सूत्रं योजयति -

तथेति ।

श्रौतव्यपदेशस्य मुख्यत्वमेव न त्वौपचारिकत्वमन्यत्रादृष्टेरित्याशङ्क्याह -

तथाचेति ॥ ३५ ॥