ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ४१ ॥
बादरायणस्त्वाचार्यः पूर्वोक्तमेव ईश्वरं फलहेतुं मन्यते । केवलात्कर्मणः अपूर्वाद्वा केवलात् फलमित्ययं पक्षः तुशब्देन व्यावर्त्यते । कर्मापेक्षात् अपूर्वापेक्षाद्वा यथा तथास्तु ईश्वरात्फलमिति सिद्धान्तः । कुतः ? हेतुव्यपदेशात् । धर्माधर्मयोरपि हि कारयितृत्वेन ईश्वरो हेतुः व्यपदिश्यते, फलस्य च दातृत्वेन — ‘एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष उ एवासाधु कर्म कारयति तं यमधो निनीषते’ इति । स्मर्यते च अयमर्थो भगवद्गीतासु — ‘यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥’ (भ. गी. ७ । २१) ‘स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान् मयैव विहितान्हितान्’ (भ. गी. ७ । २२) इति । सर्ववेदान्तेषु च ईश्वरहेतुका एव सृष्टयो व्यपदिश्यन्ते । तदेव च ईश्वरस्य फलहेतुत्वम् , यत् स्वकर्मानुरूपाः प्रजाः सृजतीति । विचित्रकार्यानुपपत्त्यादयोऽपि दोषाः कृतप्रयत्नापेक्षत्वादीश्वरस्य न प्रसज्यन्ते ॥ ४१ ॥

ईश्वरात्फलमिति सिद्धान्तयति -

पूर्वं त्विति ।

उत्तरपक्षप्रतिज्ञां विभजते -

बादरायणस्त्विति ।

परपक्षनिषेधप्रतिज्ञां प्रकटयति -

केवलादिति ।

ईश्वरानपेक्षादिति यावत् ।

कथमीश्वरस्यापि केवलस्य फलहेतुत्वं, तत्राह -

कर्मेति ।

यथा परपक्षे कर्मापेक्षादपूर्वापेक्षाद्वा कर्मणो युक्तं फलमित्युपगतं तथा तदन्यतरापेक्षादीश्वरादेव फलमस्तु । तथाच न वैषम्यादीत्यर्थः ।

तत्र प्रश्नपूर्वकं प्रमाणमाह -

कुत इति ।

अपूर्वस्याचेतनस्य केवलस्याप्रवृत्तेस्तस्यैव फलदातृत्वकल्पनायां दृष्टविरोधाद्देवतापूजात्मकत्वाच्च यागस्य पूज्यमानदेवताप्रसादद्वारा फलवत्त्वादुक्तश्रुतार्थापत्तेरीश्वरेणोपक्षयादपूर्वमप्रमाणमिति मत्वा हेतुं व्याचष्टे -

धर्मेति ।

श्रौतं हेतुव्यपदेशमुक्त्वा स्मार्तं कथयति -

स्मर्यते चेति ।

तस्य तत्तद्देवतास्वभावस्य ममेति यावत् । ततस्तस्मादाराधितादनुष्ठितादित्यर्थः ।

हेतुव्यपदेशादित्यस्यार्थान्तरमाह -

सर्वेति ।

ईश्वरस्य सृष्ट्यादिहेतुत्वेऽपि कथं फलहेतुत्वं, तत्राह -

तदेवेति ।

यच्च विचित्रस्य कारणस्येत्यादि, तत्राह -

विचित्रेति ॥ ४१ ॥