तात्त्विकमतात्त्विकं च ब्रह्मणो रूपमुक्त्वा तद्धियां प्रतिवेदान्तं प्रतीतानां नामाद्यभेदादभेदमाह -
सर्ववेदान्तेति ।
पूर्वोत्तरपादयोः सङ्गतिं वक्तुं वृत्तं कीर्तयति -
व्याख्यातमिति ।
ज्ञेये ब्रह्मण्युक्ते तज्ज्ञानं किंरूपमित्यपेक्षायां तद्विचारायोत्तरपादप्रवृत्तिरित्याह -
इदानीमिति ।
पदार्थयोः शोधनानन्तरमपुनरुक्तापेक्षितपदपदार्थोपसंहारेण सगुणनिर्गुणवाक्यानामर्थो निर्धार्यते । तत्र सगुणविद्यानां सत्त्वशुद्धिद्वारा निर्गुणविद्योपयोगात्पदार्थोपसंहरेण वाक्यार्थज्ञानार्थत्वाच्च सगुणवाक्यार्थचिन्तार्थवती निर्गुणचिन्ता तु तद्धीद्वारा मुक्तिहेतुरित्यर्थः ।
निरुपाधिकं ब्रह्मज्ञानं विचार्यत्वेनोक्तमिति मत्वा पादारम्भमाक्षिपति -
नन्विति ।
अवयवभेदाभावात्तन्निमित्तो ज्ञानभेदो न सम्भवतीत्याह -
पूर्वेति ।
स्वभावभेदाभावात्तत्कृतोऽपि ज्ञानभेदो नास्तीत्याह -
एकरसमिति ।
ज्ञेयस्य ब्रह्मणः सर्वप्रकारभेदाभावे फलितमाह -
तत्रेति ।
वेदान्तानां शक्तितात्पर्यालोचनायामपि नेयं चिन्तेत्याह -
नहीति ।
एकस्यापि पिता पुत्रो भ्रातेत्यादावनेकविज्ञानविषयत्ववदिहापि स्यादित्याशङ्क्याह -
एकेति ।
एकस्मिन्नेकरूपे स्मृत्याद्यनेकज्ञानवदनेकज्ञानसिद्धिरित्याशङ्क्याह -
नचेति ।
दृष्टान्ते तु पूर्वकालविशिष्टादेतत्कालविशिष्टमन्यदिति ज्ञानभेदो युक्तो ब्रह्मणि तु निरुपाधिके नैवमित्यर्थः ।
अर्थस्यैकरूपत्वेऽपि ज्ञानमनेकरूपं तयोर्भेदादित्याशङ्क्याह -
नहीति ।
तदेव प्रपञ्चयति -
यदीति ।
पूर्वपक्षे ज्ञानभेदशङ्कायोगं निगमयति -
तस्मादिति ।
सिद्धान्तेऽपि चोदनाद्यभेदाज्ज्ञानाभेदो न सिध्यतीत्याह -
नापीति ।
तर्हि सूत्रविरोधः स्यादित्याशङ्क्य पूर्वापरविरोधात्त्याज्यमेतदित्यभिप्रेत्याह -
अविधीति ।
आक्षेपमुपसंहरति -
तदिति ।